________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विदिशः॥२५॥ महाबलः झ-झामारुतः। “झ झावातो महाबलः" इति निघण्टुः । तद्वान् अर्श आद्यच् । झञ्झामारुतप्रेरित इत्यर्थः। महानिल इत्यपि पाठः । अश्मवर्षवान अश्मवर्षोंयुक्त इत्यर्थः। घनम् उपरितत(न)मेघम ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२ ॥ अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयोविंशे-तस्मिन् यात इत्यादि । अशिवम् अशुभावहम् । प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थ त्वरितो यथान्तकः । अचूचुदत्सारथिमुन्नदन घनं महाबलो मेघ इवाश्म वर्षवान् ॥ २६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः ॥२२॥ तस्मिन् याते जनस्थानादशिवं शोणितोदकम् । अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥१॥ निपेतुस्तुरगा स्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥२॥श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्। अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ ३॥ ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकाय स्तस्थौ गृध्रः सुदारुणः ॥४॥ जनस्थानसमीपेतुसमागम्य खरस्वनाः। विस्वरान्विविधांश्चक्रर्मासादा मृगपक्षिणः॥५॥ शोणितोदकं रक्तवर्णजलम् । तुमुलः सङ्कुलः । गर्दभारुणः गर्दभवद्धसरः ॥१॥ निपेतुः स्खलिताः । रथयुक्ताः रथे बद्धाः । पुष्पचिते पुष्पैः निबिडे । यदृच्छया देवगत्या ॥२॥ सूर्यपरिवेषमाह-श्याममिति । सर्वत्र श्यामम् । पर्यन्ते प्रान्ते रुधिरं रुधिरवर्णम् । अलातचक्रप्रतिममिति ह्रस्वत्वमुच्यते । परिवेषणं परिखेपः। परिगृह्य परितो व्याप्य ॥३॥ समुच्छितम् उन्नतम । ध्वजमुपागम्य समाक्रम्य परिक्रम्य तस्थी॥४॥ सरस्वनाः परुपस्वनाः। विस्वरान् | Gi प्रबुद्धेति । उन्नदन्त्यैर्नादं कुर्वन् । अश्मवर्षवान् महाबलो मेघः उपरि विद्यमानं घनं मेघमिवाचूचुददित्यन्वयः ॥ २६ ॥ इति श्रीमहेश्वरतीर्यविरचितायाँ श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो द्वाविंशः सर्गः ॥२२ ।। तत्प्रयातमिति पाठः। णिचि कर्मणि क्तः। तत् बलम् सेनायामित्यर्थः । गर्दभारुणः | गर्दभ इव अरुणो धूसरः॥ १॥ पुष्पचिते पुष्पयुक्ते । रथयुक्ताः रथे बद्धाः । यहच्छ या दैवगत्या ॥२॥ रुधिरपर्यन्तं रुधिरो रक्तवर्णः पर्यन्तः प्रान्तदेशो यस्य तत् । अलातचक्रप्रतिममिति तद्वनुल्यम् ॥ ३॥४॥ विस्वरान विकृतस्वरान् ॥ ५ ॥
For Private And Personal Use Only