SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagasun Gyarmandie कोषभीतिभ्यां पूर्वोक्तं विस्मृत्य पुनराह-एते चेति ॥ १३ ॥ अनुक्रोशो दया । शक्तिरिति तुल्येति शेषः ॥१४॥ निरपत्रपा निर्लजा। हतकर्णनासा त्वादिति भावः ॥१५॥प्रतिमुखे अग्रे । सबलः ससैन्यः॥ १६ ॥ मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपितविक्रमः कल्पितपराक्रमः॥ १७॥ १८ एते च निहता भूमौ रामेण निशितैः शरैः। येऽपि मे पदवी प्राप्ता राक्षसाः पिशिताशनाः ॥ १३ ॥ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च । रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर । दण्डकारण्यनिलयं जहि राक्षस कण्टकम् ॥ १४॥ यदि राम ममामित्रं न त्वमद्य वधिष्यासि । तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ॥ १५॥ बुद्धयाहमनुपश्यामि न त्वं रामस्य संयुगे । स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ॥ १६ ॥ शूरमानी न शरस्त्वं मिथ्यारोपितविक्रमः। मानुषो यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥ १७॥रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर । दण्डकारण्यनिलयं जहि तं कुलपसिन ॥ १८॥ निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृश स्त्विह । अपयाहि जनस्थानात्त्वरितः सहबान्धवः ॥ १९॥ रामतेज़ोभिभूतो हि त्वं क्षिप्रं विनशिष्यामि । स हि तेजस्समायुक्तो रामो दशरथात्मजः ॥२०॥ भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥२१॥ एवं विलप्य बहुशो राक्षसी विततोदरी । भ्रातुः समीपे दुःखार्ता नष्टसंज्ञा बभूव ह । कराभ्यामुदरं हत्वा सरोद भृशदुःखिता ॥२२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः ॥२१॥ कीदृश इति अत्यन्तायोग्य इत्यर्थः ॥१९-२१॥ विततोदरी प्रहारार्थ विस्तृतोदरी । अत्र द्वाविंशतिश्लोकाः ॥२२॥ इति आरण्य एकविंशः सर्गः॥२१ वीर्य तेजो वास्ति यदि तथापि अमित्रघ्नं दण्डकारण्यनिलयं रामं त्वं न जहि मावधीः । यदि हनिष्यसि तर्हि तवाग्रतोऽहं प्राणान् त्यक्ष्यामीति सम्बन्धः॥११-१५॥ 19 विचार्यमाणे तयोर्हनने तव शक्तिरपि नास्तीत्याह-बुद्धचेति । रामस्थ प्रतिमुखे अग्रतः स्थातुं न शक्त इति बुद्ध या पक्ष्यामि आलोचयामीति सम्बन्धः । सबलश्च महारणे इति पाठः । महारणे यः मिथ्यारोपितविक्रमः अत एव शरमानी अत एव न शुरः अत एव तो मानुपावपि हन्तुं न शक्तोषीति सम्बन्धः ॥ १६॥ १७ ॥ टीका-फुलपासन कुलघातक ।। १८ ।। अपयादि अपसर्प ॥ १९॥ एवमङ्गीकारे बाधकमाह-रामतेज इति ॥ २०॥२१॥ स्थूलोदरीति यावत् । राक्षसी प्रथितोदरी इति पाठः ॥२२॥ इति श्रीमहेश्वरतीर्थविर श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकविंशः सर्गः॥२१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy