________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
टी.आ.को.
॥६६॥
allस. २१
भक्ताः विश्वासभाजः । हिताः हितपराः। न कुर्युरिति न किंतु कुर्युवेत्यर्थः ॥३॥ किमेतदिति विस्मये । यत्कृते यस्य कुते। कृत इत्यव्ययम् । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः ॥ ४॥ विलपसीति किमिति शेषः । वैक्लव्यं कातर्यम् । इह मत्समीपे ॥५॥ दुर्घपी
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥ ३ ॥ किमेतच्छ्रोतु मिच्छामि कारणं यत्कृते पुनः । हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ॥४॥ अनाथवदिलपसि नाथे तु मयि संस्थिते । उत्तिष्ठोत्तिष्ठ मा भैषीवैक्लव्यं त्यज्यतामिह ॥५॥ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने सारे खरं भ्रातरमब्रवीत् ॥६॥ अस्मीदानीमहं प्राप्ता हृत श्रवणनासिका। शोणितौघपारिक्लिन्ना त्वया च परिसान्त्विता ॥७॥ प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश । निहन्तुं राघवं क्रोधान्मत्प्रियार्थसलक्ष्मणम् ॥ ८॥ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैमर्मभेदिभिः ॥९॥ तान दृष्ट्वा पतितान भूमौ क्षणेनैव महाबलान् । रामस्य च महत् कर्म महांस्त्रासोभवन्मम ॥10॥ अहमस्मि समुद्विग्ना विषण्णा च निशा चर. । शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥११॥ विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मनां विपुले शोकसागरे ॥ १२॥ दुस्साध्या ॥६॥ खरोक्तमङ्गीकरोति-अस्मीत्यादिना ॥ ७-१० ॥ अहमस्मीति । समुदिना भीता । विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्र रामप्रतिभासवतीति भावः ॥ ११॥ विषादनक्रेति । नको ग्राहः ॥ १२॥ अनर्थार्थम् स्वकुलस्येति शेषः ॥ १ ॥२॥ भक्ताः अत एव मय्यनुरक्ताः । अत एव मम हिताः । अत एव मम वचनं न कुयुरिति न किन्तु कुर्युरेव । किंच ते न निहन्तव्याः परैर्हन्तुमशक्याः प्रतोपि धातुका एव । निश्चयार्थे अपिशब्दः॥३॥ कारणं शोककारणम् । यत्कृते शोकनिमित्तम् ॥ ४-९ ॥ तानिति । रामस्या कर्म च, दृष्ट्वेत्यनुषज्यते ॥१०॥ भीता अत एव समुद्विग्ना कम्पमाना अतएव विषण्णा दुःखिता। अत्र हेतु:-सर्वतो भयदर्शिनी, सर्वत्र श्रीरामदर्शनादिति भावः रामेणेत्यादिश्लोकचतुष्टयस्प पातीतिकार्थः स्पष्टः । वस्तुतस्तु शूर्पणखा राम न जहीति हितबुद्धचा खरं निवारयति रामेणेति । हे निशाचार ! रामेण ते शक्तिः
॥५६॥
For Private And Personal Use Only