________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यमज्जन्त न्यमज्जन्त चेत्यर्थः ॥ १९ ॥ विकृताः विरूपाः । विगतासवः विगतप्राणाः ॥ २० ॥ भैरवस्वनान् भयङ्करशब्दान् ॥ २१ ॥ महानार्द नदन्ती कुर्वन्तीत्यर्थः । निर्यासः क्षतप्रसृतवृक्षरसः । सलकी लताविशेषः ॥ २२-२४ ॥ पुनः सर्वार्थ सङ्क्षेपेणाह निपातितानिति । दृश्य दृष्ट्वा ।
रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः । ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः । विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ १९ ॥ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः । निपेतुः शोणितार्द्राङ्गा विकृता विगता सवः ॥ २० ॥ तान् दृष्ट्वा पतितान भूमौ राक्षसी क्रोधमूर्च्छिता । परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥२१॥ सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः । [ जगाम तत्र सम्भ्रान्ता खरो यत्र महाबलः । ] उपगम्य खरं सा तु किञ्चित्संशुष्क शोणिता ॥ २२ ॥ पपात पुनरेवार्ता सनिर्यासेव सल्लकी ॥ २३ ॥ भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः । [ भूमौ शयाना दुःखार्ता लब्धसंज्ञा चिरात्पुनः ।] सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ॥ २४ ॥ निपातितान दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः । वधं च तेषां निखिलेन रक्षसां शशंस सर्व भगिनी खरस्य सा ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ॥ २० ॥
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ १ ॥ मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥ अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थ सर्वराक्षसविनाशार्थम् ॥ १ ॥ २ ॥
निपातितानित्युत्तर सर्गसइहलोकः ॥ २५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां विंशः सर्गः ॥ २० ॥ स इति । टीका-उपगम्येति । सनिर्यासा बल्लरी निर्याससहिता लतेव । किशिरसंशुष्कं किबिदाई शोणितं यस्यास्सा सनियता वरीव ॥ २२ ॥ २३ ॥
For Private And Personal Use Only