SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भू. टी.अ ॥५५॥ स०२० ब्रह्मनाः ब्राह्मणनाः ॥ ११ ॥ १२ ॥ शक्तिः बलम् । “शक्तिबले प्रभावादौ" इति विश्वः ॥ १३ ॥ परिषैः गदाभेदैः । पट्टिशैः असिभेदैः॥१४॥ तानि शूलपाणय इति पूर्वमुक्तानि ॥ १५॥ १६॥ नाराचान् अफलकान् बाणान् । शिलाशितान् शिलास्वपि शितान्, शिलानि दक्षमानित्यर्थः ।। तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश । ऊचुर्वाचं सुसंक्रुद्धाब्रह्मनाः शूलपाणयः ॥११॥ [संरक्तनयना घोरा राम संरक्तलोचनम् । परुषं मधुराभाष हृष्टा दृष्टपराक्रमम् ॥] क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥१२॥ का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतःस्थातुं किं पुनर्योद्ध माहव ॥ १३॥ एहि बाहुप्रयुक्तैनः परिषैः शूलपट्टिशैः। प्राणांस्त्यक्षसि वीर्यं च धनुश्च करपीडितम् ॥ १४ ॥ इत्येवमुक्त्वा संकुद्धा राक्षसास्ते चतुर्दश। [ उद्यतायुधनिस्त्रिंशाराममेवाभिदुद्रुवुः । ] चिक्षिपुस्तानि शूलानि राघुवं प्रति दुर्जयम् ॥ १५॥ तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश। तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ १६ ॥ ततः पश्चान्महातेजा नाराचान सूर्यसन्निभान् । जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ १७॥ गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् । मुमोच राघवो बाणान वजानिव शतक्रतुः॥१८॥ शाणोपलसन्निघृष्टानित्यप्याहुः ॥ १७॥ गृहीत्वेति । लक्ष्यान वेध्यान् । वज्रानित्यभूतोपमा ॥ १८॥ दुष्टाः ! उपासर्पितुं समीपमागन्तुं नाईथ । यद्यागमिष्यथ तर्हि हनिष्यामीत्यर्थः (सन्दुष्टा नोपासर्पितुम् इति पाठः) ॥ १०-१२ ॥ क्रोधमुत्पाद्यत्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-सुमहात्मनः सुमहानात्मा शरीरं यस्य सः । भर्तुः राज्ञः खरस्य क्रोधमुत्पाद्य तत्प्रेरितैरस्माभिरिति तुच्छेहतस्ताडितोपि प्राणाम्रो हास्यस्येव ॥ १३ ॥ अत्र हेतुः-का हीति । रणमूर्द्धन्येकस्य ते अप्रतः स्थातुं बहूनामप्यस्माकं का शक्तिः ? शक्तिर्नास्ति तदा किं पुनर्योद्धमिति योजना । अत एव खरनिर्बन्धेनागतानामस्माकमित्यत्राप्याकृष्यते । परिघादिभिरूपलक्षितानामस्माकं प्राणान् । वीर्यमित्यादि जात्येकवचनम् । वीर्यादिनं च त्यक्ष्यसि । गर्मितो णिच् । त्याजयिष्यसि न सन्देहः अत एव हीति सम्बन्धः । इतः परावृत्य गतानामस्माकं खरहस्तवधादरं त्वद्धस्तेन वध इति भावः ॥ १४-१६॥ शिलाशितान शाणोपले तीक्ष्णीकृतान् ॥ १७ ॥ टीका-आपम्प कर्णान्तमाकृष्य ॥ १८-२४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy