SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Sivi Kalassagarsun Gyarmandir % % % कथा प्रवर्तयामास ॥५-७॥ शूर्प इव नखो यस्याः सा शूर्पनखी । संज्ञाया अविवक्षितत्वात् “स्वाङ्गाचोपसर्जनासंयोगोपधात् " इति कीषु । असंज्ञात्वादेव “पूर्वपदात्संज्ञायामगः" इति णत्वाभावः ॥८॥ दासस्य मे भार्या भूत्वा कथं दासी भवितुमिच्छसि। कस्य दासस्त्वमित्यत्राह सोऽहमिति । अहमार्येण ज्येष्ठेन भात्रा । परखान् नाथवान् “ दूरानात्मोत्तमाः पराः" इत्यमरः । तस्य दासोऽहमित्यर्थः। अकमलवर्णिनीत्यपि च्छेदः ॥९॥ सिद्धार्था । एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः। ततः शूर्पनखी स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥८॥कयं दासस्य मे दासी भार्या भवितुमिच्छसि।सोऽहमार्येण परवान् भ्रात्राकमलवर्णिनि ॥९॥ समृद्धार्थस्य सिद्धार्थामुदितामलव र्णिनी। आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ १०॥ एनां विरूपामसती कराला निर्णतोदरीम् । भार्या वृद्धा परित्यज्य त्वामेवैष भजिष्यति ॥ ११ ॥ को हिरूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि । मानुषीषु वरा रोहे कुर्याद्भाव विचक्षणः ॥ १२॥ इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी। मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥ १३ ॥ सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥१४॥ एनां विरूपामसती कराला निर्णतोदरीम् । वृद्धा भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ १५॥ सिद्धनिवृत्तिः।“ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः। अमुदिता मलवर्णिनीत्यपि । यवीयसी कनिष्ठा हीना च ॥१०॥ सीतायां विद्यमा । Mनायां कथं मां परिग्रहीष्यसीत्यत्राह-एनामिति । एतादृशावस्था त्वामेव परित्यज्य सीतां भजिष्यतीति हार्दोऽर्थः । असतीम् अप्रशस्तामिति सीतापक्षे, Mअतोन पुरः स्फूर्तिकदोषः । कराला दन्तुराम् । निर्णतं निरतिशयम् उदरं यस्यास्ताम् ॥११॥को हीति विपरीतलक्षणा ॥ १२॥ परिहासाविचक्षणा परिहासानभिज्ञा ॥ १३॥ पर्णशालायामित्यनेन लक्ष्मणो बहिरेव स्थित इति गम्यते ॥ १४॥ अवष्टभ्य अवलम्ब्य ॥१५॥ काकुः ॥४-७॥ एषमिति । भारं महास्यकर्मणा अस्मत्पोषकमित्यन्तराशयः ॥८॥ आर्येण परवान् तवधीनः दासस्य मे मार्या सती दासी भषित कथमिपासीति योजना ॥९-१४॥ गुरुणापि समं हास्यं कर्तव्यं कुटिलं विनेति न्यायेन लक्ष्मणः सीतायामपि परिहासंप्रयु -एनामिति। मातीतिकोर्थः स्पष्टः । वस्तुतस्तु विरूपा स०-आर्येण परवान् आर्याभिन्नपरवान् । कमलवणिनि कमलसदृशवर्णवति । पुण्डरीकग्यशस्विनीति वा । "वों रूपयशोऽक्षरे " इति विश्वः ॥ ९॥ अमलवर्णिनि शुद्धाक्षरालापे ॥१०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy