________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyarmandie
पुरुषोत्तममिति ॥२५॥ सीतायां विद्यमानायां किं त्वयेत्यवाह-अहमिति । स्वच्छन्दबलगामिनी स्वेच्छानुगुणबलगमना च ॥२६॥ सीता निन्दति-विकृता चेति । विकृतेति विषमशरीरत्वमुच्यते । कराला विकृताम् “करालो दन्तुरे तुङ्गे विशाले विकृतेपि च" इति वैजयन्ती ॥२७॥ निर्णतं निरतिशयेन नतं निम्नमुदरं यस्याः सा निर्णतोदरी ॥२८॥२९॥ तां मदिरेक्षणां मदयति दर्पयतीति मदिरम् तादृशमीक्षणं यस्यास्ताम् । “मद दर्पशोभ
अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी । चिराय भव मे भर्ता सीतया किं करिष्यसि ॥ २६ ॥ विकृता च विरूपा च न चेयं सदृशी तव । अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥ २७॥ इमां विरूपामसती कराला निर्णतोदरीम्। अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥२८॥ ततः पर्वतशृङ्गाणि वनानि विविधानि च । पश्यन् सह मया कान्त दण्डकान विचरिष्यसि ॥ २९ ॥ इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् । इदं वचन मारेभे वक्तुं वाक्यविशारदः ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदारण्यकाण्डे सप्तदशः सर्गः ॥ १७ ॥ ततः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥१॥
कृतदारोऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥२॥ नयोः" इत्यस्माद्धातोः "इपिमदि-" इत्यादिना किरच प्रत्ययः। अत्र साविंशच्छ्लोकाः॥३०॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखला ख्याने आरण्यकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ अथ खरकोधहेतुः शूर्पणखाविरूपकरणमष्टादशे-तत इत्यादि । ततः तत्र पर्णशालायाम् । अथ शूर्पणखावचनानन्तरम् । स्वच्छया स्पष्टार्थया । शुक्ष्णया मृख्या । काम एव पाशः तेनावपाशितां सातपाशा बद्धामित्यर्थः ॥१॥ कृतदारः सम्बन्धः ॥ २५ ॥ प्रभावसम्पन्ना प्रकर्षण भावेन शृङ्गाराख्येन सम्पन्ना स्वच्छन्दवलगामिनी च ॥ २६॥ सीतासौन्दर्यदर्शनमोहितापि जगन्मोहनदिव्यमङ्गलविग्रह श्रीरामदर्शनजनितमदनातुरा आत्मनः श्रीरामपरिग्रहाय शूर्पणखा देवीं दूषयति-विकृतेति ॥ २७ ॥ निर्णतोदरीं लम्बोदरीम् ॥ २८ ॥ २९ ॥ मदिरेक्षणी रक्त लोचनाम् ॥३०॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो सप्तदशः सर्गः॥ १७ ॥ अवपाशिता बद्धाम् । स्वेच्छयेति पाठे-वेच्छया भातविषयपरिहासरूपविनोदेन, अत एव स्मितपूर्वमब्रवीत् ॥१॥ हे भवति ! अस्मीत्यहमर्थे । कृतदारः उदभार्यः। भार्या चेयं सन्निहितेत्यर्थः ॥२॥
For Private And Personal Use Only