SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie कुलानर्थकरं चदं वचनमित्याह-इक्ष्वाकूणामिति । नयसम्पन्ने एतावत्कालं नीतिशालिनि । यत्र इक्ष्वाकुकुलमध्ये । ते मतिरेवमिदानी विकृता विपरीता जाता। तत्र कुले । अयं संनिहितः । सुमहाननयः अनर्थः संप्राप्तः। सत्प्रकृतेविपरीतबुद्धिः कुलस्थानर्थहेतुरितिभावः ॥ १९॥ पूर्वापरपर्यालोचनया त्ववचनं न श्रद्धेयं चेत्याह-नहीति । अयुक्तम् अहितमिति यावत् । न श्रद्दधामि इदमहितं विप्रियकरणमिति शेषः ॥२०॥ त्वत्प्रीतिविरुदं चेदं वचन इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् । अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ १९॥न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम । अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ २०॥ ननु ते राघवस्तुल्यो भरतेन महात्मना। बहशो हि सुबाले त्वं कथाः कथयसे मम ॥२१॥ तस्य धर्मात्मनो देवि वने वासं यशस्विनः। कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २२ ॥ अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः। कथं रोचयसे वास मरण्ये भृशदारुणे ॥२३॥रोचयस्यभिरामस्य रामस्य शुभलोचने। तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥२४॥ रामो हि भरताद्भूयस्तव शुश्रूषते सदा । विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ॥ मित्याह-नन्वित्यादि । ते राघवः भरतेन तुल्यो ननु तुल्यः खलु । अत्र त्ववचनमेव प्रमाणमित्याह बहुश इति । बहुश इत्यनेनाहृदयत्त्वव्यावृत्तिः। सुबाले इत्यकुटिलत्वव्यावृत्तिः॥२१॥ तस्येति । धर्मात्मन इत्यनेन वनवासहेतुभूताकृत्यराहित्यमुक्तम् । भीरु इति तव च धर्मभीरुत्वं क गतमिति भावः ॥ २२॥ रामसौकुमार्यानुचितं चेदमित्याह-अत्यन्तेति ॥२३ ॥ शुश्रूषादर्शनेनापि रामो न निवासनाई इत्याह-रोचयसीति । तब शुश्रूष माणस्येत्यत्र “न लोकाव्यय-" इत्यादिना निषिद्धापि षष्ठयार्षी बोध्या ॥२४॥शुश्रुषमाणस्येत्येतदुपपादयति-रामो हीति ॥२५॥ इक्ष्वाकूणामिनि श्लोकद्वयमेकं वाक्यम् । यत्र यस्मिन् नयसम्पन्ने रामे ते यतो विकृता मतिरुत्पन्ना यतश्च तन्मूलो महानयमनयः श्रेष्ठगुणकज्येष्ठपुत्राभिषेक निवृत्तिरूपानर्थस्सम्पद्यते । यतः पुरा पूर्व मम विप्रिय प्रतिकूलम् अयुक्तं लोकविरुद्धं कार्य वा नाकरोः तेन कारणेन इदं त्वयोक्तं विभियं न श्रद्दधामि सत्यमिति विश्वासं न करोमि, किन्तु भरते मम नेहोऽस्ति वा नवेति मनसः परीक्षार्थमेवेदं कृतमिति मन्य इति भावः ॥ १९ ॥२०॥ न श्रदधामीत्यब हेतुमाह-नन्विति । आमन्त्रणे ननशब्दः । मे महात्मना न भरनेन राघवस्तुल्या, भरत इव प्रेमास्पदीभूत इति मम, सत्रिधाविनि शेषः। बहुशः कथाः कथयसे अतः त्वया अप्रिगपतमिनि न विश्वासं करोमीनि भावः ॥ २१ ॥ नस्य नथा प्रियस्येत्यर्थः ॥ २३-२५ ॥ Pe For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy