________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शा.रा.भ.
॥४६
तदलमिति । एप निश्चयः। रामविवासनरूपनिश्चयः । अपिते चरणाविति । अपिः प्रश्रार्थकः ॥१४॥ १५॥ अथेत्यादि लोकत्रयमेकान्वयम् । अथेति प्रश्रे। त्वं भरतस्य प्रियाप्रिय विषये मां जिज्ञाससे ज्ञातुमिच्छसि तदिदानीमपि भरतोऽभिषिच्यतामिति यत्तदस्तु तद्वक्तमुचितम् । त्वया पूर्वम०१२ राघवं प्रति “स मे ज्येष्ठः सुतः" इत्यादि यध्याहृतं तत् प्रियवादिन्या खया सेवार्थ मम मनोरञ्जनार्थ रामकृतशुश्रुषार्थ वा कथितं भवेत् , राम
तदलं त्यज्यतामेष निश्चयः पापनिश्चये । अपि ते चरणौ मूर्धा स्टशाम्येष प्रसीद मे ॥ १४ ॥ किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ १५॥ अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। अस्तु यत्तत्त्वया पूर्व व्याहृतं राघवं प्रति ॥ १६॥ स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे । तत्त्वया प्रियवादिन्या सेवार्थ कथितं भवेत्
॥७॥ तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् । आविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥१८॥ विवासनोक्तिस्तेन विरुद्धत्यर्थः । परीक्षार्थमपि भरतोऽभिषिच्यतामित्येव वक्तुमुचितम् । न तु रामो विवास्यतामित्येतत् पूर्वापरविरोधादितिभावः। रामविवासनोक्तिश्च भरते प्रीतिपरीक्षार्थमेवास्त्वित्यत आह तदिति । तत् रामाभिषेचनं श्रुत्वा शोकसंतप्ता सती मां भृशम् अतिनिर्बन्धेन सन्तापयसि। किञ्च परवशं परबोधनवशं गता सती । शून्यं गृहं क्रोधागारम् । आविष्टासि प्रविष्टासि । इदं सर्व परीक्षार्थत्वेन संगच्छत इति भावः । शून्यग्रहरिति पाठे-शून्येहेराविष्टा पिशाचादिभिराविष्टेत्यर्थः ॥ १६-१८॥ रामं बिना जीवितं क्षणमात्रमपि न तिष्ठेत, स्थातुं न शक्रयादित्यर्थः ॥ १३ ॥ तदिति सार्धश्लोकमेकं वाक्यम् । एष निश्चयः रामविवासनरूपनिश्चयः ॥१४॥१५॥ अथेन्यादि श्लोकत्रयमेकं वाक्यम् । भरतस्य प्रियाप्रिये स्नेहास्नेहयोर्विषये माम् अथ जिज्ञाससे ज्ञातुमिच्छसि किम् ? अस्तु-जिज्ञासैव भवतु, भरतस्मेहजिज्ञासा कृतेत्येतावता गमगणातिशयपक्षपातो न मन्दीभवतीत्याशयः । त्वया राघवं प्रति स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इति पूर्व यदयाहृतं तत् प्रियवादिन्या
H ॥४६॥ त्वया सेवार्थ रामकृतशभूषार्थ कथितं भवेत । यद्वा मम सेवार्थ मम विच्छेदेन त्वयि वर्तनाय कथितं भवेत् । कुतः ? तच्छ्रवेति। तत् प्रस्तुतं रामाभिषेचन श्रुत्वा शोकसंतप्ता सनी त्वं मां भशं संतापयसि । तत्र कारणमुत्प्रेक्षते आविष्टेति । परवशं गता सा त्वम् शन्पम् अगोचरं ग्रहं भूतपिशाचादिकम् आविष्ठा प्राप्तासि । गन्ये इति पाठे विवेकशून्ये इति कैकेय्याः संबोधनम् ॥ १६-१८॥
For Private And Personal Use Only