________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिलभ्येत्यादि श्लोकत्रयमेकान्वयम् । व्यथितः दुःखितः । विकुवः विह्वलः । “विडवो विह्वलः" इत्यमरः । मण्डले अहितुण्डिकयन्त्रमण्डले॥ ३-६ ॥ प्रतिलभ्य चिरात् संज्ञां कैकेयीवाक्यताडितः । व्यथितो विकुवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ ३ ॥ असंवृताया मासीनो जगत्यां दीर्घमुच्छ्रसन । मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ ४ ॥ अहो धिगिति सामर्षो वाच मुक्का नराधिपः । मोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ ५ ॥ चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः । कैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ ६ ॥ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । किं कृतं तव रामेण पापे पापं मयापि वा ॥ ७ ॥ यदा ते जननीतुल्यां वृत्तिं वहति राघवः । तस्यैव त्वमनर्थाय किंनिमित्तमिहो ता ॥ ८ ॥ त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता । अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ ९ ॥ जीवलोको यथा सर्वो रामस्याह गुणस्तवम् । अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ १० ॥ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् । जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ ११ ॥ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् । अपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ १२ ॥ तिष्ठेल्लोको विना सूर्य सस्यं वा सलिलं विना । न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ १३ ॥
नृशंस इति । किं पापं कृतमित्यन्वयः । पापम् अपराधः ॥ ७ ॥ यदेति । वृत्तिं शुश्रूषां तस्यैव तदेवेत्यपि बोध्यम् । तस्यैव न तु तत्पुत्रादेः । तदैव न तु कालान्तरे शुश्रूषाभावदशायाम् ॥ ८ ॥ त्वमिति । नृपसुतेत्यत्रेतिकरणं द्रष्टव्यम् ॥ ९-१३ ॥
एतेषां मध्ये का वाऽवस्था मम वर्तत इत्यर्थः ॥ २ मतिलभ्येत्यादिश्लोकत्रयमेकं वाक्यम् । विक्लवः विह्वलः । असंतायामिति । जगत्यां भूषि, मण्डले यन्त्रमण्डले, धिगिति वाचमुक्त्वा भूयः पुनरपि मोहं मूर्च्छाम् आपेदिवान् प्राप्तवान् ॥ ३६ ॥ नृशंस इति । नृशंसे करे ! दुष्टचारित्रे दुष्टव्यापारे ! ॥ ७॥ यदेति । जननीतुल्यां स्वजननीतुल्यां वृत्तिं शुश्रूषां वहति करोति, किन्निमित्तं केन निमित्तेन उद्यता ॥ ८ ॥ अयं स्वकृतानर्थ इत्याह-त्वमिति । अविज्ञानात् अविचारात । नृपसुतेत्यत्रेतिकरणं द्रष्टव्यम् ॥ ९ ॥ जीवलोक इतिं । सर्वोपि जीवलोकः, यदा सर्वदापि योग्यताबलात् रामस्य गुणस्तवमाह, तस्मादिति शेषः । उद्दिश्य व्याजीकृत्य न त्वेव त्यजेयमित्यनुकर्षः ॥ १० ॥ ११ ॥ परा उत्कृष्टा । चेतना जीवितम् ॥ १२ ॥ तिष्ठेदिति । लोकः सूर्य विना तिष्ठेत्, किञ्चित्कालं तिष्ठेदित्यर्थः ।
For Private And Personal Use Only