________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
टी.अ.का.
१२
॥४५॥
सत्यत्यावश्यकर्त्तव्यत्वमाइ-स इति । राजराजः स त्वं सत्यसङ्गरः सत्यप्रतिज्ञः भव । तेन सत्यसङ्गरत्वेन कुलादित्रयं रक्ष । सत्यस्य रक्षकत्वमुपपाद यति परत्रेति । नृणां हितं सत्यवचः। परत्रवासे स्वर्गलोकादिवासे । अनुत्तमं अत्यन्तोत्तमसाधनं वदन्ति ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकादशस्सर्गः ॥११॥ अथ सत्यपाशबद्धस्य राज्ञः शोकं वर्णयति-तत इति । प्रतताप
स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च । परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ ३०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीभदयोध्याकाण्डे एकादशः सर्गः ॥११॥ ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः । चिन्तामभिसमापेदे मुहूर्त प्रततापच ॥१॥ किंनु मे यदि वास्वप्न श्चित्तमोहोऽपि वा मम । अनुभूतोपसर्गोवा मनसोवाप्युपद्रवः । इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥२॥ मुमूच्छेति यावत् ॥ १॥ चिन्तां विवृणोति-किं न्विति । किंन्विति सामान्याकारेण चिन्ता स्वदुःखावहस्य रामाभिषेकविघ्नस्य सत्स्वभावया कैकेय्या कथनासम्भवादिदं पारमार्थिकं न भवति स्वमो यदि वा।अथवेदानी निद्राया असंभवाञ्चित्तमोहः भ्रमो वा । इदानी भ्रमकारणाभावादनुभूतोपसों वा। जन्मान्तरानुभूतानामर्थानां उपसर्गः भावना वा । स्मरणमिति यावत । जन्मान्तरेप्येवंविधावस्थाया असम्भावितत्वादाह मनस उपद्रवो वा । रोगज विकारो वा । उन्माद इति यावत् । प्रतताप चेत्येतदनुवदति इतीति ॥२॥ त्वन्यायेन त्वा निर्बध्नामीदानीम, न झुत्तमणेनाधमर्णाहणग्रहणं तस्य तत्कालपीडेत्येतावता दोष इत्याशयः ॥ २८ ॥ २९ ।। इममेवाथै स्पष्टमुपदिशति-स राजराज इति । राजराजः प्रसिद्धः । त्वं सत्यसो भव, तेनैव हेतुना कुलादिकं रक्ष । सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह पात्रेत्यादि । परत्रवासे परलोकविषये हितं वदन्ति ॥ ३० ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम एकादशः सर्गः ॥ ११॥ तत इति । दारुणम् अशनिपातकल्पं वचः श्रुत्वा नष्टसंज्ञः सन् चिन्तामभिसमापेदे ॥ १॥ तामेष चिन्ता दर्शयति-किंनु मे इति । सामान्यविचारः, चित्तमोहः चित्तभ्रान्तिर्वा, अनुभूतोपसर्गः अनुभूतानां पदार्थानामुपसर्गः नाशा, सुषुप्तिरित्यर्थः । मनस उपद्रवः रोगविशेषो वा
For Private And Personal Use Only