________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकाशे एव निक्षेपौ निक्षेपत्वेन स्थापितौ । तौ तु वरौ तावेव वरौ । मृगयामि अन्वेषयामि, इच्छामीत्यर्थः ॥ २० ॥ तदिति । वरमिति जात्येकवच नम् ॥ २१ ॥ वादमात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारक वचनमात्रेण । कैकेय्या स्ववशे कृतः राजा वाहमात्रेण मृगशब्दानुकारिणा लुब्धककथि तिन । आत्मनो विनाशाय पाशं मृग इय वागुरां मृग इव धर्मपाशं प्रचस्कन्द गतवान् । " स्कन्दिर गतिशोपणयोः " इतिधातुः । वरप्रदानमङ्गीचका तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् । अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २१ ॥ वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः । प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २२ ॥ ततः परमुवाचेदं वरदं काममोहितम् । वरौ यो मे त्वया देव तदा दत्तौ महीपते ॥ २३ ॥ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ २४ ॥ अभिषेकसमारम्भो राघवस्योपकल्पितः । अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम् ॥ २५ ॥ यो द्वितीयो वरो देवदत्तः प्रीतेन मे त्वया । तदा देवासुरे युद्धे तस्य कालोऽयमागतः ॥ २६ ॥ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः । चीराजिनजटाधारी रामो भवतु तापसः ॥ २७ ॥ भरतो भजतामद्य यौवराज्यमकण्टकम् । एष मे परमः कामो दत्तमेव वरं वृणे ॥ २८ ॥ अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ २९ ॥ रेत्यर्थः । यद्वा वागुरां प्राप्तो मृग इव प्रचस्कन्द शोषणं प्राप्त इत्यर्थः ॥ २२ ॥ तत इत्यादि ॥ २३ ॥ ताविति । तौ वरौ वक्ष्यामि तौ वरौ विभज्य प्रदातुं प्रकारं वक्ष्यामीत्यर्थः ॥ २४ ॥ अभिषेक समारम्भ इति । अभिषेकसमारम्भः अभिषेकसामग्री । य इति शेषः । अभिषेकेण अभिषेकसामय्या ॥ २५ ॥ २६ ॥ नवेति । चीरं वल्कलम् ॥ २७ ॥ विलम्बव्यावृत्त्यर्थमाह-भरत इत्यादिना । दत्तमेव नतु नूतनं किञ्चिदर्थये ॥ २८ ॥ २९ ॥ स्थापितों तौ वरो मृगयामि याच इत्यन्वयः | २ ॥ प्रकृतमुपसंहरति-तदिति । तत्तस्मात धर्मेण मह्यं वरद्वयं दास्यामीति प्रतिश्रुत्य प्रतिज्ञां कृत्वा दास्यसि न चेत तबैव सकाशे अद्यैव जीवितं प्रहास्यामीति ॥ २२ ॥ वामात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारकवचनमात्रेण पाशं वरप्रदानाभ्युपगमसंज्ञम् प्रचस्कन्द प्रविवेश, विशेषतो वरस्वरूपे अनुक्ते सत्येव तौ वरो मे धारयसीत्येतावन्मात्र एवाभिहिते अननुकूलवरप्रदानाभ्युपगमसंज्ञं पाशमात्मनो विनाशाय प्राप्तवान । क इव ? वाङ्मात्रेण गीतेन मृगशब्दानुकरणेन वा वशीकृतः पाशं वागुरां मृग इव ।। २२ ।। वरो यो म इति । तो तावदद्यैव वक्ष्यामि मम दातव्यवरा विमाविति विभज्य वक्ष्यामि तन्मे वचः शृणु ।। २३ ।। २४ ।। अभिषेकेत्यादि । यः कल्पितः । अनेनेति योजना ।। २५-२७ ॥ एष इति । दत्तमेव वरं वृणे इति न
For Private And Personal Use Only