________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा..INमाइ-तेनेति । तेन वाक्येन शपथपूर्वकं त्वदभिमतं करिष्यामीत्युक्तदशस्थवचनेन ॥ १२॥ दशरथवाक्यं दृढीकर्तुं नरस्य धर्माधर्मसाक्षिभूता देवता .अ.का.
श्रावयति-यथा कमेणेति । क्रमेण प्रियपुत्रसुकतक्रमण । यथा शपसि वरं ददासि च तथा तच्छृण्वन्त्विति सम्बन्धः ॥ १३॥ चन्द्रादित्याविति । ग्रहाः . ..
यथा क्रमेण शपसि वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सानिपुरोगमाः ।। १३॥ चन्द्रादित्यो नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च टथिवी चैव सगन्धर्वा सराक्षसा ॥ १४॥ निशाचराणि भूतानि गृहेषु गृहदेवताः । यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥१५॥ सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः । वरं मम ददात्येष तन्मे शृण्वन्त देवताः ॥ १६॥ इति देवी महेप्वासं परिग्रह्याभिशस्य च। ततःपरमवाचेदं वरदं काममोहितम । ॥७॥ स्मर राजन् पुरावृत्तं तस्मिन् देवासुरे रणे। तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा॥ १८॥ तत्रचापि मया देव यत्त्वं समभिरक्षितः। जाग्रत्या यतमानायास्ततो मे प्राददावरी ॥ १९॥ तौ तु दत्तौ वरौ देव निक्षेपो
मृगयाम्यहम् । तवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥२०॥ नवग्रहाः। जगत् लोकः । “लोको विष्टपं भुवनं जगत्" इत्यमरः । लोकश्चात्र स्वर्ग एव ॥ १४-१६॥ इतीति । परिगृह्य धर्मपाशेन संयम्य । अभि शस्य सर्वा देवताःसाक्षित्वेन शृण्वन्त्वित्युगुष्य ॥१७॥ स्मरेति। पूर्ववृत्तमेवाह तंत्रति । तत्र रात्रियुद्धे । अन्तरा मध्ये । तव जीवितम् अच्यावयत् अचार लयत् । शस्त्रप्रहारादिना मूच्छौ प्रापितवानित्यर्थः ॥ १८॥ तत्रेति । यतमानायाः सारथ्ये यत्नं कुर्वाणायाः॥१९॥ तौ त्विति । हे पृथवीपाल ! तब रूपाभिप्रायम् । अभ्यागतम् अकस्मादागतम् अन्तकमिव महाघोरं राज्ञः प्राणहरम् व्याजहार व्याहत निश्चितवती ॥ १२ ॥ राजप्रतिज्ञाया दुष्करघोरार्थविषयकत्वा द्विफलत्वशङ्कया तत्प्रतिज्ञामशेषसाक्षीकरणेन स्थिरीकरोति-यथा क्रमेणेत्यादि । यथाक्रमेण अतिप्रियपुत्रसुकृतादिपरिग्रहक्रमेण, शपसि शपथं करोषि तत्पूर्वक वरं मम ददासि च अभीष्टं दातुं निश्चितवानसि नात्र सन्देहः किल, नदेव त्वन्निश्चयं देवाइयः शृण्वन्तु ॥१३॥ जगत परोक्षस्वर्गादिभुवनम्, पृथिवी प्रत्यक्षभुवन देवता इति उक्तप्रकारेण देवी महेष्वासं राजानं परिगृह्य स्वमते स्थाप्य ॥ १४ ॥ १५ ॥ सत्यसन्ध इत्यादिना स्ववचनकृतिस्थैर्यायैवाभिशस्य तमुवाच ॥१६॥१७॥ किमुवानेत्यत आह-स्मरेति । तब रात्रियुडे, शत्रुः शम्बरः, तव जीवितमन्तरा प्राणं बिना त्वामच्यावयत प्रच्युतवीर्यमकरोत । अथवा तब रणे। अन्तरा मध्ये ॥४॥ शत्रुः तव जीवितमच्यावयत अचालयत, अमेहयदिति वार्थः ॥ १८ ॥ तत्रेति । तत्र रणे, हे देव ! यद्यस्मात त्वं मया समभिरक्षितः ततः तस्मात् यत मानायाः तब रक्षणे यत्नं कुर्वन्त्याः जाग्रत्या जागरूकाधाः मे मम वरौ प्रददाः दत्तवानसि ॥१९॥ तौ तु दत्ताविति । हे पृथिवीपाल ! तव सकाशे निक्षेपरूपेण
For Private And Personal Use Only