________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतीतिशेषः ॥ ७ ॥ आत्मनेति । आत्मना स्वदेहेन । आत्मजैः भरतादिभिः । अन्यैश्व प्रियबन्धुभिश्च । मूल्यभूतेरेतेये रामं वृणे सर्वान् परित्य ज्यापि राममेव परिगृहामीति भावः ॥ ८ ॥ भद्रइति । हे भद्रे ! मे हृदयं एतत् एतादृशमनुसृश्य शपथवचनानुसारित्वेन निर्धार्य उद्धरस्व उज्जीवय । एतत् वाङ्मनसयोरे करूप्यम् । समीक्ष्य सम्यगालोच्य । यत्साधु इष्टं मन्यसे तदब्रूहि, त्वदभीष्टकरणमेव मष्जीवनम् । अन्यथा न जीवामीत्यर्थः ॥ ९ ॥
आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ ८॥ भद्रे हृदयमप्येतदनुमृश्यो द्धरस्व मे । एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ ९ ॥ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि । करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ १० ॥ सा तदर्थमना देवी तमभिप्रायमागतम् । निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुःसहं वचः ॥ ११ ॥ तेन वाक्येन संहृष्टा तमभिप्रायमागतम् । व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ १२ ॥ बलमिति । आत्मनि बठं त्वथि विद्यमानं दृष्टिचित्तापहारिसौभाग्यवलम् ॥ १० ॥ सेति । तदर्थमनाः मन्थरोपदिष्टरामविवासन पूर्वक भरताभिषेक रूपार्थमनाः । अभिप्रायमागतं स्वाभिमतशपथं प्राप्तं निर्माध्यस्थ्यात् निर्गतमध्यस्थभावात्, पक्षपातादित्यर्थः ॥ ११ ॥ उक्तमर्थ सविशेष शप इत्यन्वयः ॥ ७ ॥ आत्मनेति । आत्मना मया वा आत्मजैः पुत्रैः अन्यैः प्राणिभिः आत्मानमितरानात्मजांश्च विहायापि यो वरणीयस्तेन रामेणेत्यन्वयः ॥८॥ भद्र इति । हे भद्रे ! यदेतन्मे हृदयमभिप्रायः सर्वथा त्वद्वचनक्रियाविषयकः । यद्वा हृदयमपि एतत् एतादृशम् । वागनुसारीत्यनुमृश्य विचार्य, त्वदमीष्टकथनेन मामुद्धरस्व अस्मादुःखादुद्धर । एतदपि एतन्मदुद्धरणमपि कर्तव्यं नवेति च समीक्ष्य विचार्य अतः परं यत्साधु तब हितं मन्यसे तद्ब्रूहि । अथवा तत्वान सयोरैक्यं निरीक्ष्य बत्साधु मन्यस इति वार्थः ॥ ९ । नात्र सिद्ध्यसिद्धिशङ्का कर्तव्येत्याह- बलमिति । आत्मनि त्वयि । बलं मत्प्रेमरूपं बलम् । पश्यन्ती जानन्ती सती मां शङ्कितुं नाईसि मत्पतिः मदीयं कार्यं करिष्यति वा न वेति सन्देहं माकार्षीरित्यर्थः ॥ १० ॥ सेति । तदर्थमनाः तस्मिन् सङ्कल्पितेऽर्थे मनो यस्याः सा तमभिप्रायमागतम् आनुकूल्यं प्राप्तं दशरथं निर्माध्यस्थ्यात् स्वपुत्रपक्षपातात् हर्षाच्च पतिरपि सर्व स्वकार्य करिष्यतीत्यानन्दाच्चेत्यर्थः । दुर्वचं शत्रूणामपि वक्तु मशक्यं वचः बभाषे भाषितुमालोचनं कृतवती ॥ ११ ॥ तेनेति । तेन वाक्येन रामशपथपूर्वकस्य वचनक्रियावाक्येन संहृष्टा । तमभिप्रायं पुत्रराज्यरामप्रब्राजन
१ निर्माध्यस्थादव २२ मात्मनः । इतिपाठान्तरम् ।
For Private And Personal Use Only