________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अर्थेच्छापक्षं परिहरति-अहमिति । मम जीवनेनापि हेतुना त्वत्प्रियं व्याइन्तुं नोत्सहे, लत्प्रियार्थ जीवितमपि परित्यजामीत्यर्थः। आत्मनि बलं त्वयि विद्यमानं वाल्लभ्यं बलम् ॥३५-३७॥ चक्रं सूर्यस्य रथचक्रम्, आज्ञा वा। प्राचीना इत्यादि प्राचीनादिदेशाः ये सन्तीतिशेषः । तत्र तेषु देशेषु धनधान्यम्
अहं चैव मदीयाश्च सर्वे तव वशानुगाः। न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ३५ ॥ आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि । बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ ३६॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ ३७॥ यावदावर्त्तते चक्रं तावती मे वसुन्धरा । प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ॥ ३८॥ वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः । तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ॥३९॥ ततोवृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ ४०॥ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने । तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥४१॥ तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ॥ ४२ ॥ तथोक्ता सा समाश्वस्ता वक्तुकामा
तदप्रियम् । परिपीडयितुंभृयो भर्तारमुपचक्रमे ॥४३॥ इत्यार्षे० श्रीरामायणे श्रीमदयोध्याकाण्डे दशमः सर्गः ॥१०॥d यदस्तीति शेषः। ततः तत्र ॥३८-४०॥ किमिति। आयासेन भूशयनायासेन। तत् भयनिमित्तम् । रश्मिवान सूर्यः॥४१॥४२॥ तथति । परिपीड यितुं प्रतिज्ञाकरणेन निर्बन्धयितुम् ॥ ४३ ॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने दशमः सर्गः ॥१०॥ न ते किनिदित्यादि । ते तव अभिप्रायम् । अभिप्रेतं मनोरथम् किषित किश्चिन्मात्रमपि व्याहन्तुम् अहं नोत्सहे, अतः आत्मनो जीवितेनापि यदिच्छसि तद् हि । यद्वा आत्मनो जीवितेनापि निजजीवितेनापि हेतुना त्वत्मियं व्याहन्तुं नोत्सह इति वार्थः । बलभिति । आत्मनि त्वयि, बलं मामकमेमाख्यं बलं जानन्ती सती मां शद्वितुं नाईसि, त्वयि मत्प्रेम्णो गरीयस्त्वाच्छङ्का न कार्येत्यर्थः । सुकृतेनापि शपे, किमुतान्यैरिति भावः । यद्वा आत्मनि मयि बलं दुष्कर। स्यापि संपादनसामर्थ्य जानन्ती सती मनोरथः सिद्ध्यति वा नवेति शङ्का कर्तुं नाहसीतिवार्थः ॥ ३५-३७ ॥ यावदित्यादि । चक्रं भूचक्रम् आज्ञाचक्रं वा सूर्यमण्डलं वा यावदावर्तते, तावती तावद्विस्तीर्णा वसुन्धरा भूमिः, मे मम, आधीनेति शेषः । प्राचीना इत्यादि । ये जनपदाः सन्ति, तत्र तेषु, जातं यद्धनधान्यादिकमस्ति ततः तेषु द्रव्येषु, यत्त्वं मनसेच्छसि तवृणीष्वेति योजना ॥ ३८-४१॥ तदिति। रश्मिवान सूर्यः ॥ ४२ ॥ तथोक्तेति । समाश्वस्ता विश्वास
For Private And Personal Use Only