________________
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
Shri Mahavir Jain Aradhana Kendra
यथापूर्व । पर्यपृच्छत प्रतिहारीमितिशेषः। पूर्वमदर्शनकाले यथा पृच्छति तथापृच्छदित्यर्थः ॥ १२॥२०॥प्रतिहार्या इति । भूयः अतिशयेन । अदर्शनविषादादपि क्रोधागारप्रवेशश्रवणादतिशयेन विषसाद लुलितव्याकुलेन्द्रियः लुलितानि चूर्णितानि व्याकुलानि स्वस्वविषयग्रहणासमर्थानि इन्द्रि याणि यस्य स तथोक्तः ॥२१॥ तत्रेति । अतथोचितां भूमिशयनानींम् ॥ २२ ॥ रामाभिषेकसंरम्भे सपनीमातुःक्रोधस्तानिमित्त इति कुतो राजा
प्रतिहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः । देव देवी भृशं क्रुद्धा क्रोधागारमभिद्वता ॥२०॥ प्रतिहार्या वचः श्रुत्वा राजा परमदुमनाः। विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ॥२१॥ तत्र तां पतितां भूमौ शयाना मतथोचिताम् । प्रतप्त इव दुःखेन सोपश्यजगतीपतिः ॥२२॥ स वृद्धस्तरुणी भार्या प्राणेभ्योऽपि गरीयसीम् । अपापः पापसङ्कल्पां ददर्श धरणीतले ॥ २३ ॥ लतामिव विनिष्कृत्तां पतितां देवतामिव । किन्नरीमिव निर्धूतां
च्युतामप्सरसं यथा ॥२१॥ मायामिव परिभ्रष्टां हरिणीमिव संयुताम् । करेणुमिव दिग्धेन विद्धां मृगयुना वने॥२५॥ न ज्ञातवानित्यत्राह-स इति । अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भावः ॥ २३ ॥ तदर्शनस्य दुस्सहत्वमाह-लतामिवेति । पतिता भूगतां निए॒ताम् "धूभ् कम्पने"। व्याकुलितामितियावत् । च्युतां दिव इतिशेषः ॥ २४॥ मायामिति । वामीमिव परिभ्रष्यामित्यपि पाठः-वामी वडवां । “वाम्यश्ववडवा" इत्यमरः। संयतां वागुरया बदाम् । दिग्धेन विपलिप्तवाणेन । “विपाते दिग्पलिप्तकौ” इत्यमरः। मृगयुना व्याघेन । सम्यग्भूगतत्वा ।
कामाम् , अपण्डिताम् आगामिकार्यानभिज्ञाम् । यधापुरं यथापूर्वम् । अविज्ञाय अदृष्ट्वा । पूर्व यथा अदर्शनकाले पृच्छति तथा पर्यपृच्छत, प्रतीहारी मितिशेषः। Su१९॥ प्रतिहारीति । प्रतिहारी दौवारिकी, हे देव! देवी क्रुद्धा क्रोधागारमभिदुतेत्युवाच ॥ २०॥ प्रतिहार्या इति । पुनः भयोधिक विषसादेति अदर्शनमात्रेण
प्रथम प्राप्तविषादस्य क्रोधागारभवेशश्रवणाद्विषादाधिक्यम् । लुलितव्याकुलेन्द्रियः । लुलितानि क्षुभितानि व्याकुलानि चक्षलानि इन्द्रियाणि यस्य स तथोक्तः ॥२१॥ तत्रेति । तत्र क्रोधागारे, अतथोचिताम अधश्शयनाद्यनुचिताम् ॥ २२॥ स इति । पापसङ्कल्पाम्-पापः रामाभिषेकविधातानुकूलः सङ्कल्पो मनोरथो यस्यास्ताम् ॥ २३ ॥ लतामिति । विनिष्कृत्तां छिन्नाम् । पतितां पुण्यक्षयात्स्वर्गात्परिभ्रष्टाम, देवतामिव स्थिताम, च्युतां स्वर्गच्युताम, मायामिव परिभ्रष्टा परमोहनार्थ प्रयुक्ता मायामिव स्थिताम् , संयता वागुरादिना बद्धाम, हरिणीमिव स्थिताम् बने मृगयुना व्याधेन कर्जा, दिग्धेन विषालितवाणेन विद्धा प्रदताम् करेणुं करिणीमिव स्थिताम् भार्या ददशेति पूर्वेणान्वयः ॥ २४ ॥ २५ ॥
For Private And Personal Use Only