________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.ग.भ.
॥४
॥
अथ दशरथस्य कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्तःपुरे दर्शयति-शुकेत्यादि । वादिवरवसंघुष्टं वीणादिचतुर्विधवाद्यवानुनादितम् “ततं वीणादिकं वाद्यमानदं मुरजादिकम् । वंशादिकं तु सुपिरं कांस्यतालादिकं धनम् । चतुर्विध मिदं वाद्यं वादित्रातोधनामकम् ॥” इत्यमरः । कुजादीनां प्रियानुकूल्यहेतुत्वाइतिवृद्धिहेतुत्वम् ॥ १२ ॥ लतागृहेः चित्रगृहेश्वोपलक्षितम् । दान्ताः
शुकबर्हिणसंधुष्टं क्रौञ्चहंसस्तायुतम् । वादिवरवसंधुष्टं कुब्जावामनिकायुतम् ॥ १२ ॥ लतागृहैश्चित्रगृहैश्चम्पका शोकशोभितैः । दान्तराजतसौवर्णवेदिकाभिः समायुतम् ॥ १३॥ नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् । दान्तराजतसौवर्णैः संवृतं परमासनैः ॥ १४॥ विविधैरन्नपानश्च भक्ष्यैश्च विविधैरपि । उपपन्नं महाहेश्च भूषितस्त्रि दिवोपमम् ॥१५॥ तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् । न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ॥१६॥ स कामबलसंयुक्तो रत्यर्थ मनुजाधिपः । अपश्यन् दयितां भार्या पप्रच्छ विषसाद च ॥ १७ ॥ न हि तस्य पुरा देवी तां वेलामत्यवर्त्तत। न च राजा गृहं शून्यं प्रविवेश कदाचन ॥ ८॥ ततो गृहगतो राजा कैकेयीं
पर्यटच्छता यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥ १९॥ दन्तनिर्मिताः। नित्यपुष्पफलैरिति दोहदविशेषादितिज्ञेयम् ॥१३॥१४॥ विविधैरिति । भक्ष्यैः अपूपादिभिः भूपितैः स्त्रीजनैरितिशेषः । अतएव त्रिदिवो पमम् ॥ १५॥१६॥ स इति । कामवलसंयुक्त उद्दीपनदर्शनादुचितकालत्वाच्चेति भावः । अतएव रत्यर्थ प्रपच्छ व गतासीत्येवम् । प्रत्युत्तराभावादिष साद च ॥ १७ ॥ विषादहेतुमाह-न हीति । तां वेलां रतिवेलाम् ॥ १८॥ तत इति । कैकेयी स्वार्थलिप्तुं स्वप्रयोजनपराम् । अविज्ञाय यथापुर शुकेति । रुतायुतं कतयुक्तम् । कुब्जावामनिकायुतम् कुब्जाः गडुलाः । वामनिकाः हस्वाः । दान्ताः हस्तिदन्तः कृताः ॥ १२-१६ ॥ स इति । कामबलं मन्म थोद्रेका, तत्संयुक्तः। अत एव रत्यर्थे भार्यामपड्यन पप्रच्छ । प्रतीहारीमितिशेषः । विषसाद च ॥ १७ ॥ विषादहेतुमेवाह-नहीति । हि यस्मात् पुरा पूर्व देवी कैकेयी, तस्य दशरथस्य तां वेलाम् आगमनसमयं नात्यवर्तत नातिक्रान्तवती। पूर्व भर्तुरागमने दिव्यालङ्कारयुक्ता सस्मिता कैकेयी भर्तुरानन्दं जनयन्ती सती तं समयं नातिक्रामति, इदानीं चातिक्रान्तति विषादः । न चेति । शून्यं कैकेयीरहितं गृहम् ॥ १८ ॥ तत इति । स्वार्थलिप्सुं स्वार्थ भरताभिषेकरूपं लन्धु
॥४१॥
For Private And Personal Use Only