________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
संवेशनाभिधानं रोपसूचक भ्रुकुटीकरणमाल्यभूषणापवेधादिविशेषप्रदर्शनार्थम् । भ्रुकुटीं क्रोधजनिताकारविशेषम् ||५|| पूर्व त्यक्तभूषणादीनामौदासी न्येन भूमौ विशेषं दर्शयति तत इति । यान्यप्यविद्धानि तानि भूमिं प्रपेदिरे नतु मनूषिकाम् । क्रोधातिशयसूचनाय भूमावुत्सर्जनम् ||६|| व्याकीर्णत्व द्योतनाय तानि वर्णयति तयेत्यादिना ॥ ७ ॥ क्रोधागार इति । गतसत्त्वा क्षीणवेला, विगतासुरितिवार्थः । " द्रव्यासु व्यवसायेषु सत्त्वमस्त्री तु
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च । अपविद्धानि कैकेय्या तानि भूमि प्रपेदिरे ॥ ६ ॥ तया तान्यु पविद्धानि माल्यान्याभरणानि च । अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥ ७ ॥ क्रोधागारे निपतिता सा बभौ मलिनाम्बरा । एकवेणी दृढं बध्वा गतसत्त्वेव किन्नरी ॥८॥ आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् । उपस्थान मनुज्ञाप्य प्रविवेश निवेशनम् ॥ ९ ॥ अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् । प्रियाही प्रियमाख्यातुं विवेशान्तः पुरं वशी ॥ १० ॥ स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः । पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥ ११ ॥ जन्तुषु" इत्यमरः ॥ ८ ॥ आज्ञाप्येति । आज्ञाप्य सुमन्त्रादीन्नियम्य । अभिषेचनं अभिषेचनसाधनं प्रति । उपस्थानं आस्थानम्, सद् इत्यर्थः । अनु ज्ञाप्य अनुज्ञां कारयित्वा । यद्वा पञ्चमसर्गे 'गुरुणा त्वभ्यनुज्ञातः' इत्युक्तत्वाद्वसिष्ठ एवोपस्थानशब्देनोच्यते ॥ ९ ॥ अद्येति । रामाभिषेकः अद्य वै इदानीमेव प्रसिद्ध इति जज्ञिवान् । इतःपूर्व कैकेय्याः श्रोतुमवकाशो नास्तीति ज्ञातवानित्यर्थः । सर्वमस्य वशे वर्तत इति वशी स्वतन्त्रः । अतः स्वयमेव प्रियाह केकयी प्रति प्रियमाख्यातुमन्तःपुरं विवेश ॥ १० ॥ स इति । स्ववाधक कैकेयीयुक्तत्वाद्वाहुयुक्तमित्युक्तम् ॥ ११ ॥
तत इति । अपविद्धानि त्यक्तानि ॥ ६ ॥ ७ ॥ क्रोधागार इति । गतसत्येष गतासुरिव ॥ ८ ॥ आज्ञाप्येति । अभिषेचनम् अभिषेकसाधनम् । प्रतिज्ञाप्य नियम्य सुमन्त्रादीनिति शेषः । उपस्थानं सदः । अनुज्ञाप्य अनुज्ञां कारयित्वा सभ्यैरनुज्ञान इत्यर्गः ॥ ९ ॥ अद्येति । रामाभिषेकः, अद्यैव ददानीमेव प्रसिद्ध इति जज्ञिवान इतः पूर्व कैकेय्या ज्ञातुमवकाशो नास्तीति ज्ञातवानित्यर्थः । अतः स्वयमेव मियाही कैकेयी प्रति प्रियमाख्यातुं अन्तःपुरं विवेश। पञ्चमसर्गे “विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव " इत्युक्तस्यैवान्तःपुरप्रवेशस्य पुनः कथनं कथासङ्गत्यर्थम् ॥ १० ॥ स इति । अत्र गृहस्य केकेधीयुक्ततया पाण्डराव राहुयुक्ताकाशसाहदयं द्रष्टव्यम् ॥ ११ ॥
For Private And Personal Use Only