________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तथेति । अतिविद्धा अतिदुःखिता निधाय हस्ती हृदय इति विस्मयाभिनयः । अतिविस्मिता अतिस्निग्धा । कथं मदनिटं करिष्यतीति । कुपिता रामा भिषेकप्रवर्तकं भर्तारमुद्दिश्य कुपितेत्यर्थः ॥ ६२ ॥ ६३॥ अहमिति । इतो गच्छतीति वर्तमानसामीप्ये लट् ॥ ६४ ॥ अथेति । मेदिनीमधिशिश्ये
प्रपत्स्यते राज्यमिदं हि राववो यदि ध्रुवं त्वं ससुता च तस्यसे। अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥६॥ तथातिविद्धा महिषी तु कुब्जयासमाहतावागिपुभिर्मुहुर्मुहुः । निधाय हस्तौ हृदयेऽति विस्मिता शशंस कुब्जांकुपिता पुनः पुनः॥३२॥ यमस्य वामां विषयं गतामितो निशाम्य कुन्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ॥ ६३॥ अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्।न किञ्चिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ॥६४॥ अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी । असंपृतामास्तरणेन मेदिनी तदाधिशिश्ये पतितेव किन्नरी ॥६५॥ उदीर्णसंरम्भतमोवृताननातथावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमला बभूव सा तमोवृता द्यौरिव मनतारका
॥६६॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवमः सर्गः ॥९॥ "अघिशीइस्थासां कर्म" इतिसप्तम्यर्थे द्वितीया ॥६५॥ उदीर्णेति । उदीर्णः उत्कटःसंरम्भः कोपः स एव तमः तेन वृतानना। विमला पूर्व विमला तमोवृता नीलाभ्रयुक्ततमोवृता। मनतारका अस्तमिततारका ॥६६॥ इति श्रीगो श्रीरामायणभूषणे पीता अयोध्याकाण्डव्याख्याने नवमः सर्गः ॥९॥ अथो इति । अत्यर्थमहापराक्रमैः महारैर्वचोभिरु पलक्षिता ॥६० ॥ ६१॥ नयेति । कुपिता, राजानं प्रनीति शेषः। अतिविद्धा संतता मुहुर्मुहुः समाहता पीडिता शशंस उवाचेत्यर्थः ॥ ६२ ॥ यमस्येति । अत्र श्लोके इतिपदं केकयराजायेति पदं वा दशरथायेति पदं वा अध्याहार्यम् ।। ६३ ।। अहमिति । नाननपानभोजन मित्यत्रैकवद्भावः। आस्तरणानि चित्रकम्बलादीनि ॥ ६४ । अयेति । अब मन्दरासमीपे प्रतिज्ञानन्तरम् सर्वाभरणानि निधाय निक्षिप्य, भूमाविति शेषः । पुण्य क्षयात् भूमौ पतिता किनरीव मेदिनी मेदिन्याम् अधिशिश्ये । सतम्यर्वे द्वितीया । असंवृता मुदुतल्पादिना अनाच्छादिताम् ॥ ६९ ॥ उदीर्णेति । तदा शयन M काले, उदीर्णः उदिक्तसंरम्भः क्रोध एव तमः तेन वृतमाननं यस्यास्ता नयोक्ता, विमनाः दुर्मनाः मनतारका अस्तमिततारका द्यौः आकाशमिव स्थिता ॥ ६६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां नवमः सर्गः ॥९॥
For Private And Personal Use Only