SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org भा.रा.भ. टी.अ.का. आह्वयमानेन स्पर्द्धमानेन "स्पायामाङः" इत्यात्मनेपदम् । मुखेन हेतुना अप्रतिमानना अप्रतिद्वन्द्वमुखी । द्विषजनं मत्सपत्नीजनं प्रति । गर्वयन्ती गर्व कुर्वन्ती। गर्वशब्दात्तत्करोतीति ण्यन्तात् शत्रादि । स्वार्थ णिनित्येके । मुख्यां तृणीकृतसर्वजनाम् । गतिं पादन्यासविशेषम् । गमिष्यसि करिष्यसि । तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः । पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ ५२ ॥ इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् । शयानां शयने शुभ्र वेद्यामग्निशिखामिव ॥५३॥ गतोदके सेतुबन्धो न कल्याणि विधीयते । उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय ॥५४॥ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह । क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ५५॥ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरा हाणि शुभान्याभरणानि च ॥ ५६ ।। ततो हेमोपमा तत्र कुब्जावाक्यवशंगता । संविश्यभूमौ कैकेयी मन्थरामिद मब्रवीत् ॥५७॥ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि । वनं तु राघवे प्राप्ते भरतःप्राप्स्यतिक्षितिम् ॥१८॥ न सुवर्णेन मे ह्यों न रत्नैर्न च भूषणैः । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥५९॥ अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः । उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ॥६॥ ओदनपाकं पचतीतिवनिर्देशः ॥५१-५३ ॥ गतोदक इति । हे कल्याणि! कुरु मदुक्तप्रकारमितिशेषः। राजानमनुदर्शय, कोषागारमितिशेषः। यद्वा । अनुदर्शय प्रतीक्षस्वेत्यर्थः ॥५४॥ तथा प्रोत्साहितेत्यादि श्लोकत्रयमेकान्वयम् । अनेकशतसाहवं बहुमूल्यमिति यावत् “शतमानविंशतिक-" इत्या। दिना कीतार्थेऽण॥ ५५-५७।। इहेति । नृपाय मदुपेक्षकाय ॥२८॥२९॥ कैकेयीनिश्चयं द्रढयति-अथो इति । राममुपेत्य राममुहित्य ॥ ६० ॥ ६१॥ प्यसि ॥ ५१-५३ ॥ एवं वृथाजल्पेन कालात्ययो मास्त्विति त्वरयति गतेत्यादि । रामाभिषेकानन्तरं बरग्रहणं व्यर्थमित्यर्थः । राज नमनुदर्शय, राजागमनं प्रतीक्षस्वेत्यर्थः । यदा राजानमनुदर्शय क्रोधागारमिति शेषः ॥ ५४ ॥ ५५ ॥ अनेकशतसाहस्र बहुमूल्यम् अवमुच्य त्यक्त्वा ॥ ५॥ हेमोपमा सुवर्णाङ्गी ॥५॥ हेति । हे कुब्जे ! राघवे वनं प्राप्ते सति भरतः क्षिति प्राप्स्यतीति नृपाय केकयराजाय आवेदयिष्यसि नो चेदिति शेषः । मान्दिकोषागारे मृतां सती वा केकय राजायावेदयिष्यसि । यद्वा मदुपेक्षकाय दशरथायावेदयिष्यसि । यदि मे सांत्वना तदा राघवे वनं प्राप्ते भरतः क्षितिं प्रापयति नत पक्षान्तरमित्यर्थः॥५६॥५॥ ॥३९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy