________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
इत्यमरः । उपलक्षणे तृतीया ॥ १४ ॥ आसन्निति । अन्याः लौकिक्यः मायाः ॥ ४५ ॥ तवेति । स्थगु उरोनिस्मृतोन्नतविकृतावयवविशेषः । स्थघोणं नासिकाकाररथावयवविशेषः । “स्मृतिय॑तीतविषया मतिरागामिगोचरा । बुद्धिस्तात्कालिकी ज्ञेया प्रज्ञा कालिकी मता ॥” इत्युक्तविषयविभागेन
आसन् याः शम्बरे मायाः सहस्रमसुराधिपे। सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ॥ ४५ ॥ तवेदं स्थगु यद्दीर्घ स्थघोणमिवायतम् । मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ॥ ४६॥ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् । अभिषिक्ते च भरते राघवे च वनं गते ॥४७॥ जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे । लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥४८॥ मुखे च तिलकं चित्रं जातरूपमयं शुभम् । कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥४९॥ परिधाय शुभे वस्त्रे देवतेव चरिप्यसि ॥ ५० ॥ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना । गमिष्यसि गति मुख्यां गर्वयन्ती द्विषजनम् ॥५१॥ मतेर्बाहुल्यम् । त्रिविद्याः राजनीतयः । मायाः विचित्रकुत्सितशक्तयः। अत्र स्थगुनि ॥४६॥४७॥ जात्येनेति । उत्तमस्वर्णजातौ भवं जात्यम् । दिगा। दित्वात् यत् । सुनिष्टप्तेन सुद्रुतेन सुवर्णेन । लेपयिष्याभि सुवर्णक केनालङ्करिष्यामीत्यर्थः । यद्वा चन्दनसंघृष्टसुवर्णेन सह लेपयिष्यामीत्यर्थः । प्रतीता सन्तुष्टा ॥ ४८॥ मुख इति । जातरूपमयं सुवर्णमयम् । चित्रं नानारत्नखचिततया नानावर्णम् । तिलकं तिलकाकारं भूषणम् ॥४९॥२०॥ चन्द्रमिति ।। आयताभ्यां सक्थिभ्यामूरुभ्याम् ॥ १४ ॥ ४५ ॥ तवेति । स्थगु विस्तृतोन्नतावयवसंनिवेशम्, वक्ष इत्यर्थः । रथघोणं चक्ररन्ध्रसमीपोन्नतप्रदेशः, तद्वदायतम् । पार्श्वयोः समसंनिवेशः मध्ये उन्नतो लोकविलक्षणो वक्षोषिशेषः स्थगुशब्दार्थः। ततः किमत आह मतय इति । मतयः "स्मृतिय॑तीतविषया मतिरागामि गोचरा । बुद्रिस्तात्कालिकी जेया प्रज्ञा बैकालिकी मता ॥" इत्युक्तविषयविभागेन मतेर्बाहुल्यम । क्षत्रविद्या राजनीतयः, मायाः विचित्रकुत्सित शक्तयः । अत्र, स्थगुनि । वसन्ति तिष्ठन्ति ॥ ४६॥ अत्रेति । अत्र ते तव स्थगुनि माला प्रतिमोक्ष्यामि स्थापयामि ॥ ४७ ॥ किश्च जात्येनेति । लब्धार्था प्राप्तमनोरथा प्रनीता संतुष्टा जात्येन शुद्धेन सुवर्णेनालंकृतं ते स्थगु चन्दनादिना लेपयिष्यामीत्यर्थः । जात्येन जातो भवं जात्यम् । तेन सुवर्णेन लेपयिष्यामि, उत्तमसुवर्णकृतेन का किनालङ्करिष्यामीति वार्थः । चन्दनसंवृष्टसुवर्णेन लेपयिष्यामीति वार्यः । जात्यसुनिष्टप्तसुवर्णकृतभूषणेन लेपयिष्यामि गुप्तं करिप्यामीति वार्थः । तथाविध सुवर्णसदृशचन्दनादिना लेपयिष्यामीतिवार्थः ॥ १८-५० ॥ चन्द्रमिति । चन्द्रमाह्वयमानेन चन्द्र मुहुः स्पर्द्धमानेन द्विषजने गर्व कुर्वन्ती मुख्यां गतिं गमि
For Private And Personal Use Only