________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥३८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुब्ज इति । नाभिजानामीति एतावत्कालमितिशेषः । पृथिव्यां यावत्यः कुब्जाः सन्ति तासां सर्वासां मध्ये त्वमुत्तमा बुद्धिनिश्वये विषये । अनेन कुब्जानां प्रायेण बुद्धितैक्ष्ण्यमस्तीति द्योतितम् ॥३८॥ त्वमेवेति । समवबुद्धयेयमिति शकि लिङ् ॥ ३९ ॥ सन्तीति । दुस्संस्थिताः दुःसन्निवेशाः ॥ ४० ॥ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् । पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्वये ॥ ३८ ॥ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी । नाहं समवबुद्धयेयं कुब्जे राज्ञः चिकीर्षितम् ॥ ३९ ॥ सन्ति दुस्संस्थिताः कुब्जा क्राः परमपापिकाः । त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ॥ ४० ॥ उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतम् | अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ॥ ४१ ॥ परिपूर्ण तु जघनं सुपीनौ च पयोधरौ । विमलेन्दु समं वक्त्रमहो राजसि मन्थरे ॥ ४२ ॥ जघनं तव निर्घुष्टं रशनादामशोभितम् । जङ्के भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥४३॥ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी । अग्रतो मम गच्छन्ती राजहंसीव राजसे॥४४॥ उर इति । ते उरः अभिनिविष्टं अभिनिवेशवत् सत् स्कन्धाभ्यां स्पर्द्धमानं सत् यावत्स्कन्धात् स्कन्धपर्यन्तं समुन्नतमित्युत्प्रेक्षा । अधस्तात् उरसो ऽधस्तात् स्थितं सुनाभं शोभननाभि । योगविभागादच । उदरं उरसः सजातीयस्य उन्नतिं दृष्ट्वा लज्जितमिव शातं कृशम् ||४१|| परिपूर्णमिति । परि पूर्ण पृथुलम् ॥ ४२ ॥ जघनमिति । उपन्यस्ते संश्लिष्टे सुसन्निवेशे वा । आयतौ दीर्घौ ॥४३॥ त्वमिति । सक्थिभ्यां ऊरुभ्यां “सक्थि कीवे पुमानूरुः उत्पथं गता अमार्ग गता किशोरी बढवा, परभदर्शना सुन्दरी । यद्वा परम् अत्यन्तम् अदर्शना विरुद्धदर्शना परं विस्मयं प्राप्ता कैकेयी मन्थरामब्रवीदिति सम्बन्धः ॥ ३७ ॥ कुब्ज इति । श्रेष्ठाभिधायिनां श्रेष्ठवचनमभिदधाति वक्तीति तथा हितोपदेशं कुर्वन्तीमित्यर्थः श्रेष्ठां त्वां नाभिजानामि । श्रेष्ठत्वमेवाह पृथिव्यामिति । बुद्धिनिश्वये उत्तमासि || १८ || मम हिताचरणेनापि तवोत्तमत्वमित्याह त्वमेवेति । हितैषिणी भवसीति शेषः । राज्ञः चिकीर्षितं कर्तुमिष्टं रामा भिषेकम् ॥ ३९ || सन्तीति । दुस्संस्थिताः दुष्टावयवसंस्थानविशेषयुक्ताः त्वं प्रियदर्शना सुन्दरी, त्वं पद्ममित्र वातेन सन्नता नम्रासि यथा सहजसुन्दरं पद्मं वातेन नम्रमपि न निन्द्यते तथा वातोद्रेकात् वक्रतामापत्रापि त्वं न निन्द्यासीति भावः ॥ ४०॥ उर इति । उरः वक्षः अभिनिविष्टम् अभितः पार्श्वयोर्निविष्टन् । समसन्नि वेशम् यावत्संस्थानम्, मध्य इति यावत । विभक्त्यर्थेऽव्ययीभावः । यावत्स्कन्धात्समुन्नतमिति पाठ यावत्स्कन्धात् स्कन्धपर्यन्तम्। समुन्नतम् उच्छ्रितम्। अधस्ताव वक्षसोधः प्रदेशे स्थितमिति शेषः । सुनाभं शोभननाभि, उदरं च लजितमिव शातम्, उरस उन्नतिं दृष्ट्वा त्रीडितमिव कृशमित्यर्थः । अधस्ताचैव संज्ञानमिति पांठे सुनाभशब्देनोदरमुच्यते ॥ ४१ ॥४२॥ जघनमिति । रशनादामशोभितं सत निर्घुष्टं शब्दायमानम्, उपन्यस्ते समीचीनावयवसंस्थानयुक्ते ॥ ४३ ॥ त्वमिति ।
"
For Private And Personal Use Only
टी.अ.का. स० ९
॥३८॥