________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चतुर्दशवर्षव्यतिरिक्तं पुरुषायुपशेषम् ॥ ३१ ॥ रामपवाजनमिति । रामप्रव्राजनं चेति चकारेण भरताभिषेकः समुच्चीयते ॥३२॥ एवमिति । रामोराम इत्यत्र अराम इति पदच्छेदः। अरामो भविष्यति । इदानीमेव प्रकृतिस्नेहपात्रं न भविष्यतीत्यर्थः। यद्वा रामो भविष्यति एक एव भविष्यती त्यर्थः ॥ ३३ ॥ येनेति । कृतमूलः रूढमूलः। कृतमूल इत्यस्यैव विवरणं संगृहीतेत्यर्धम्। संगृहीतमनुष्यश्चेन्यत्र भविष्यतीत्यनुषज्यते । संगृहीताः अनु ।
रामप्रवाजनं चैव देवि याचस्व तंवरम्। एवं सिद्धयन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥ ३२ ॥ एव प्रवाजितश्चैव रामोऽरामो भविष्यति । भरतश्च हतामित्रस्तव राजा भविष्यति ॥ ३३ ॥ येन कालेन रामश्च वनात्प्रत्याग मिप्यति । तेन कालेन पुत्रस्ते कृतमूलो भविष्यति । संगृहीतमनुप्यश्च सुहृद्भिः सार्द्धमात्मवान् ॥ ३४ ॥ प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा । रामाभिषेकसम्भारानिगृह्य विनिवर्त्तय ॥ ३५॥ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया । हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥३६॥ सा हि वाक्येन कुब्जायाः किशोरीवो
त्पथङ्गता। कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥ ३७॥ रञ्जिताः। मनुष्याः पौरजानपदाः येन स तथोक्तः। तत्र हेतुरात्मवानिति ॥३४॥ प्राप्तकालमिति । प्राप्तकालम् अभिमतप्रार्थनोचितकालम् । वीतसाध्वसा ।। विगतभया। अमुंकालं प्राप्तकालं मन्ये तेन विनिवर्तयेति सम्बन्धः॥३५॥ अनर्थमिति । अनर्थ विरुद्धार्थम् । अर्थरूपेण अनुकूलार्थरूपेण । ग्राहिता बोधिता तथैव प्रतीता ज्ञातवती, अतएव दृष्टा सेति प्रतीतेत्यस्योपपादनमेतत् । किशोरी वडवा । उत्पथं अमार्गम् । परमदर्शना,पुरेतिशेषः॥३६॥३७॥ वर्षव्यतिरिक्तपुरुषायुषकालम् । अतः पुनरागमनेपि न रामस्य राज्याशेति तात्पर्यम् ॥ ३१ ॥ ३२ ॥ एवमिति । रामोऽरामो भविष्यतीति स्वयमेक एव भविष्यति । रमयत्यानन्दयतीति रामः । मुनीनामिति शेषः ।। ३३ ॥ येनेति सार्धश्लोकमेकं वाक्यम् । तेन कालेन चतुर्दशसंवत्सरात्मकेन कालेन । ते तव पुत्रः संगृहीत मनुष्यस्सन सुहृद्भिस्साई कृतमूलो भविष्यतीत्यन्वयः ॥ ३४ ॥ प्राप्तकालमिति । बीतसाध्वसा त्यक्तभया सती त्वं राजानं निगृह्य निर्बन्धेन स्वाधीनं कृत्वा रामाभिषेकसम्भारानिवर्तय, पतन्त्रिवर्तनं प्राप्तकालं मन्य इत्यर्थः । अभिषेकसम्भारनिवर्तनस्यायमेव काल इत्यर्थः ॥ ३५ ॥ अनर्थमित्यादि श्लोकद्वयमेकान्वयम् । अनर्थ रामविवासनरूपम्, वस्तुतः स्वस्यैव प्रतिकूलमित्यर्थः। अर्थरूपेण अनुकूलार्थरूपेण । ग्राहिता प्रतिबोधिता । प्रतीता तयैव गृहीतार्थी, अत एव हृष्टा॥३६॥ सेति।
For Private And Personal Use Only