________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
॥३६॥
उत्थानहेतुर्न शय्यादोष इत्याशयेनाह-स्वास्तीर्णादिति ॥८॥ कथयेति । कथय त्वं ममोपायमित्यस्य विवरणं केनेत्यादि ॥ ९॥१०॥वरं स्मारयितुंगीथ को पूर्वकथामाह-तवेत्यादि श्लोकद्वयमेकान्वयम् । हे केकेयि! देवासुरे देवासुरसम्बन्धिनि युद्धे । तव पतिः देवराजस्य साह्यकृत् साहाय्यकृत्सन् । राजर्षिभिः स्वाश्रितैः सह त्वां नोपादाय दण्डकान् प्रति दक्षिणां दिशं आस्थाय प्राप्य । यत्र तिमिध्वजो वर्तते तद्वैजयन्ताख्यं पुरमगच्छदिति सम्बन्धः ॥१२॥१२॥ कथय त्वं ममोपाय केनोपायेन मन्थरे। भरतःप्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ९॥ एवमुक्ता तया देव्या मन्थरा पापदशिनी। रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ १०॥ तव दैवासुरे युद्धे सह राजर्षिभिः पतिः। अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥१३॥ दिशमास्थाय वै देवि दक्षिणांदण्डकान् प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ ॥ स शम्बर इति ख्यातः शतमायो महासुरः । ददौ शक्रस्य सङ्घामं देवसङ्घ रनिर्जितः॥ १३॥ तस्मिन् महति सङ्ग्रामे पुरुषान क्षतविक्षतान् । रात्रौ प्रसुप्तान नन्ति स्म तरसासाद्य राक्षसाः ॥१४॥ तत्राकरोन्महद्युद्धं राजा दशरथस्तदा। असुरश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥१५॥ अपवाह्य त्वया
दवि सङ्घामान्नष्टचेतनः । तत्रापि विक्षितः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ १६ ॥ कस्तिमिध्वजः स कीदृशः स कमपराधं कृतवानित्यवाह-स इति । देवसङ्घः अनिर्जितः देवसङ्घान् पराभूय शकाय युद्धं ददावित्यर्थः ॥ १३॥ तस्मि निति । क्षता बाणशूलादिभिः सञ्जातव्रणाः, विक्षताः खड्गपरशुपट्टिशादिभिर्विविध प्रहताः तान् रात्रौ सुप्तान् । प्रन्ति स्मेत्यभिधानात् पुरुपाणां क्षत विक्षतत्वं दिवायुद्धकृतमित्यवगम्यते । राक्षसाः असुराः॥१४॥तवति । तत्र प्रसुप्तप्रदेशे । तदारात्री ॥१५॥ अपवाद्येति । हे देवि ! नष्टचेतनः मूञ्छितः। महोपायम् अमोघोपायम् (महोपायमिति पाठः) वर स्मारयितुं पूर्वकथामाह तवेति । श्लोकद्वयमेकं वाक्यम। हे देवि! तव पतिः देवासुरे युद्धे देवराजस्य साह्यकृत सहायभूतस्सन त्वामुपादाय दक्षिणां दिशमास्थाय आश्रित्य स्थितान दण्डकान प्रति अगच्छत वैजयन्तं परं चागल्छन् । तिमिध्वजः शम्बरः ॥९-१२ ॥ स इति ।। सुरैरनिर्जितः देवसङ्ख सहितस्य शक्रस्य संग्राम ददौ॥ १३ ।। तस्मिन्निति । क्षतविक्षतान्-क्षताः शूलादिभिः सनातत्रणाः, विक्षताः खगपरशुपटुसादिभिः विविध प्रहनाः तान, राबी प्रसुप्तान प्रान्ति स्मेत्यनेन पुरुषाणां क्षतविक्षनत्वं दिवायुद्धकृतमित्यवगम्यते॥१४॥ तत्रेति । तत्र सुप्तपदेशे। तदा प्रहारकाले॥१५॥अपवाह्येति ।
१६॥
For Private And Personal Use Only