________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मित्यादि । कोपेन दास्यप्राप्तिश्रवणजकोपेन || १ || २ || मन्थराया अतिकुशल बुद्धियोगं दृष्ट्वा तामेवोपायं पृच्छति इदमिति । इदं प्रस्तुत कार्योपयोगिसाध नम् । सम्पश्य सञ्चिन्तय ॥ ३ ॥ एवमिति । रामार्थ रामाभिषेकरूपप्रयोजनम् ||४|| हन्तेति । हन्तशब्दो हर्षे वर्तते । स्वाभिमतरामविवासन पूर्वक भरता भिषेकोपायप्रश्ननिबन्धनोऽत्र हर्षः वरस्मरणहेतुको वा । मे मत्तः केवलं राज्यं कृत्स्नं राज्यं “ निर्णीत केवलमिति त्रिलिङ्गं त्वेत्योः " इत्यमरः ॥८५॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् | यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥ २ ॥ इदं त्विदानीं संपश्ये केनोपायेन मन्थरे । भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ३ ॥ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी । रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे । यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ ५ ॥ किं न स्मरसि कैकेथि स्मरन्ती वा निगृहसे । यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतु मिच्छसि ॥ ६ ॥ मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥७॥ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी । किञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
किमिति । हे कैकेयि! त्वं उच्यमानं त्वया बहुशः कथ्यमानं आत्मार्थे आत्मप्रयोजनं मत्तः श्रोतुमिच्छसीति यत् अतस्तन्न स्मरसि किम् स्मरन्ती वा निगू से किमिति योजना ॥ ६ ॥ मयेति । छन्दः अभिलाषः “छन्दः पद्येऽभिलाषे च" इत्यमरः ॥ ७ ॥ श्रुत्वेति । किञ्चिदुत्थानमादरातिशयात् । अद्येति । इतः नगरात् ॥ २ ॥ ३ ॥ एवमुक्तेति । रामा रामाभिषेकप्रयोजनम् । उपहिंसन्ती विद्यातपन्ती ॥ ४ ॥ हन्तेति हवें । कैकेयी स्वमतानुवर्तिनी जातेति हर्षः। ते पुत्रो भरतः केवलं भरत एव यथा येनोपायेन राज्यं प्राप्स्यति तमुपायं मे मत्तः श्रूयताम्, तवोपायज्ञानाभावे मत्सकाशाच्छूयतामित्यर्थः ॥ ५ ॥ किं न स्मरसीति । हे कैकेयि ! यत् यस्मात् मया उच्यमानं आत्मायें आत्मप्रयोजनोपायं । मत्तः मत्सकाशादेव । श्रोतुमिच्छसि अतस्तमुपायं न स्मरसि किम् ? स्मरन्ती वा निग्रहसे आच्छादयसि किम् ? ॥ ६ ॥ मयेति । हे विलासिनि ! मयोच्यमानं त्वत्प्रयोजनमिति शेषः । ने छन्दः इच्छा यदि ॥ ७ ॥ ८ ॥
विषम० वं प्रपश्य आलोचयेत्यर्थः । तदुपायापरंज्ञानेपि मे मतः अयम् ॥ १ ॥
For Private And Personal Use Only