SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ||३५|| www.kobatirth.org रूपात् । भरतो राज्यं यद्यवाप्स्यति एवं चेत्ते ज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्वापि भविष्यति ॥ ३४ ॥ राज्यानवाप्तावनिष्टमाह स इति । सहजो रिपुः सपत्नीपुत्रत्वात् सहजः शत्रुः, ते स बालः भरतः रामस्य वशे कथं जीविष्यति ॥ ३५ ॥ एवमनर्थपौष्कल्ये तत्परिहाराय कर्त्तव्यमाह - अभिद्रुतमिति । प्रच्छाद्यमानं अभिभूयमानम् || ३६ || दर्पादिति । कथं वैरं न यातयेत् वैश्यातनं वैरशुद्धिः तां त्वयि दास्यापादनेन सम्पादयेदित्यर्थः ॥ ३७ ॥ उपसं स ते सुखोचितो वालो रामस्य सहजो रिपुः । समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे॥३५॥ अभिद्भुतमिवारण्ये सिंहेन गजयूथपम् । प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ॥ दर्पान्निराकृता पूर्व त्वया सौभाग्यवत्तया । राममाता सपत्नी ते कथं वैरं न यातयेत् ॥ ३७ ॥ यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम् । तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥ ३८ ॥ यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति । अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ॥ ३९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टमः सर्गः ॥ ८ ॥ एवमुक्ता तु कैकेयी कोपेन ज्वलितानना । दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir हरति यदेत्यादिना ॥ ३८ ॥ कैकेय्यनर्थमुक्त्वा भरतानर्थमाह-यदा हीति । राज्यं राज्यकारणम् | परस्य रामस्य ॥ ३९ ॥ इति श्रीगोविन्द • श्रीरामा ० पीताम्बरा० अयोध्याकाण्ड • अष्टमः सर्गः ॥ ८ ॥ अथ रामगुणज्ञापि कैकेयी कार्यपरैर्देवैः क्षुब्धहृदया सती मन्थरावचनमनुमोदितवतीत्याह - एव अर्धत्रयमेकं वाक्यम् । भरतः धर्मात् राजधर्मात पित्र्यं राज्यं यद्यवाप्स्यति एतद्धि मह्यं रोचते तवापि भृशं हितम् एवं सति ते तव ज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्चैव भविष्यतीत्यन्वयः ।। ३३-३५ ।। अभिद्रुतमिति । प्रच्छाद्यमानम् आक्रम्यमाणम् ॥ ३६ ॥ दर्पादिति । सौभाग्यवत्तया पतिवाल्लभ्येन कथं वैरं न यात •येत वैरनिर्यातनं कथं न कुर्यादित्यर्थः ॥३७॥३८॥ यदेति । आत्मजे भरते । राज्यं राज्यप्राप्तिकारणम् । सञ्चिन्तयतु परस्य रामस्य विवासकारणं संचिन्तय ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविर० श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टमः सर्गः ॥ ८ ॥ एवमुक्तेति । एवमुक्ता मन्थरया पूर्वरीत्या बोधिता ॥ १ ॥ For Private And Personal Use Only टी.अ.का. स० ९ ॥३५॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy