________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
रामतो भरतस्यैव कौसल्यातोऽस्या अनर्थ दर्शयति-प्राप्तामिति । रामाभिषेकेण सुमहतीं श्रियं प्राप्ताम् । प्रतीतां ख्याताम् ।" प्रतीते प्रथितख्यात वित्त विज्ञातविश्रुताः" इत्यमरः । हतद्विपं अधरीकृत सपत्नीकाम् । तां कौसल्याम् । उपस्थास्यसि सेविष्यसे ॥ १० ॥ न केवलं तबैकस्या दास्यं किंतु त्वदनुबन्धि जनस्यापीत्याह एवमिति । तव दास्यं प्राप्तं चेदित्यर्थः ॥ ११॥ हृष्टा इति । राममहिष्या एकत्वेपि 'रामस्य परमाः स्त्रियः' इति बहुवचननिर्देशः परि
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् । उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥ १० ॥ एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि । पुत्रश्च तव रामस्य प्रेप्यभावं गमिष्यति ॥ ११ ॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ १२ ॥ |चारिकाभिप्रायेण । भरतक्षये भरतस्य दारिद्यरूपक्षये सति । नन्वत्र स्त्रीशब्दो भार्यापर एव । 'सुपास्ते भरतक्षये' इति सुपाशब्दसाहचर्यात् । अत एव सुन्दरकाण्डे सीतयांच्यते- "पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितत्रतश्च । स्त्रीभिश्च मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः॥” इति। युद्धकाण्डे च दर्भशयनवर्णने "भुजैः परमनारीणामभिमृष्टमनेकधा" इत्युक्तम् । नहि भुजैर्भुनाभिमर्शो भार्याभ्योन्यत्र सम्भवति । उत्तरकाण्डे चाश्वमोघो पक्रमे "मातरचैव सर्वा मे कुमाराः स्त्रीगणानि च । अग्रतो भरतं कृत्वा गच्छन्त्वये समाधिना ॥” इति दर्शितम् । अत्र स्त्रीगण कुमारव्यपदेशो बिना सीता अतिरिक्तभासद्भावं सम्भवति । किञ्च श्रुतार्थापत्तिरपि रामस्य सीतातिरिक्तधर्मदारसद्भावे प्रमाणम् । न ह्यपत्रीकस्य यज्ञानुष्ठानं सम्भवति भोगदारा अन्तरासम्भवन रामस्यैकदारत्रतत्वं भृगुशापपालनं च । सीताप्रतिकृतिकरणं तु सीता स्नेहबहुमानार्थम् । अत्रोच्यते - रामस्यैकदारव्रतत्वं सर्वसिद्धम् । तच्च पत्न्यन्तरसम्भवेन सङ्गच्छते। न च यज्ञकरणानुपपत्तिः सीताप्रतिकृतिकरणेन तदुपपत्तेः । अत एवात्तरकाण्डे वक्ष्यति " काञ्चनीं मम पत्नीं च दीक्षा यज्ञकर्मणि । अग्रतो भरतः कृत्वा गच्छत्वये महामतिः ॥” इति सीताप्रतिकृते दीक्षाहित्वं पत्नीत्वं च । पुनश्चोत्तरत्र " न सीतायाः परां भार्या त्रे स रघुनन्दनः । यज्ञेयज्ञे च पत्त्यर्थ काञ्चनी जानकीभवत् ॥” इति । नहि वचनविरोधे न्यायः प्रवर्तते । अनेन वचनेन प्रत्यक्षश्रुत्यविरुद्धेन विदूरभाय ऽननुकूलभार्यश्च भार्याप्रतिकृतिं कृत्वा श्रौतस्मार्तकर्माणि कुर्यादिति विधिरुन्नीयते । स्मृतिश्च तथाविधा पठ्यते । यथा हेमाद्री देतौ तृतीया ॥ ९ ॥ प्राप्तामिति । प्रतीतां विश्रुताम् ॥ १० ॥ ११ ॥ हृष्टा इति रामस्य परमाः स्त्रिय इत्यनेन बहुवचनेन सीतासख्य उच्यन्ते, स्नुषा इत्य
For Private And Personal Use Only