________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३२॥
बा.रा.भू. मिति । यः यस्माद्भीतः स तस्य भयमवश्यमुत्पादयति, व्यात्रसर्पादिविषये तथा दर्शनादिति भावः ॥ ५ ॥ यद्यपि लक्ष्मणशत्रुघ्नयोरपि राज्यं साधारणं तथापि तयोः परतन्त्रत्वान्न भयप्रसक्तिरित्याह-लक्ष्मण इति । सर्वात्मना सर्वप्रकारेण मनोवाक्कायेरित्यर्थः । अतो रामस्य न लक्ष्मणाद्भयमिति भावः । शत्रुभस्य भरतपरतन्त्रत्वेन न ततः पृथग्भयमित्यर्थः ॥ ६ ॥ भरतादेवेत्यत्र हेत्वन्तरमाह - प्रत्यासन्नेति । प्रत्यासन्नेन सन्निकृष्टेन क्रमेण पुनर्वसुपुष्य लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः । शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ ६ ॥ प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि । राज्यक्रमो विप्रकृष्टस्वयोस्तावत्कनीयसोः ॥ ७॥ विदुषः क्षत्त्रचारित्रे प्राज्ञस्य प्राप्तकारिणः । भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ ८ ॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते । यौव राज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ९ ॥
नक्षत्रजननकमेण । भरतस्यैव राज्यं प्राप्तमिति शेषः । कनीयसोः कनिष्ठयोः । राज्यक्रमः राज्यप्राप्तिकमस्तु । विप्रकष्टः व्यवहितः । सत्यपि पारतन्त्र्ये राज्यविषये सर्वेषामभिलापस्तुल्यः । यथा भरतस्येतिशङ्कायां प्रथमं रामस्य राज्यं प्राप्तं ततो भरतस्य ततो लक्ष्मण शत्रुघ्नयोः । तथा च प्रथमो द्वितीयं जिघांसति, अतो रामाद्भयं भरतस्यैवेति भावः ॥ ७ ॥ एवं राज्यकमो भरतस्य सन्निहितोऽस्तु तथापि रामे प्रथमप्राप्तिमति विद्यमाने का भरतस्य राज्यशङ्केत्यत्राह विदुष इति । विदुषः स्वत एव विवेकशालिनः । विशिष्य क्षत्रचारित्रे राजनीतो । प्राज्ञस्य प्राप्तकारिणः अविलम्बेन कालो चितकर्तव्यार्थ कारिणः रामस्य । भयाद्धाव्यनर्थकरणभयात् । तवात्मजम् उक्तवैदुष्यादिरहितम् चिन्तयन्ती प्रवेपे । पष्ठी चात्र सम्बन्धसामान्ये ॥ ८ ॥ कैकेय्या ईष्योंत्पादनार्थ कौसल्यासौभाग्यं दर्शयति-सुभगेत्यादिना । सुभगा भाग्यशीला । यौवराज्येनेति हेतौ तृतीया ॥ ९ ॥
भयं यदस्ति तद्भयं विचिन्त्य विषण्णास्मि । कुतः ? हि यस्माद्भयं भीताद्धि जायते। भीतो रामः स्वभयहेतुभूतं भरतं सर्वप्रकारेणापि निराकुर्यादिति भावः ॥ ५ ॥ लक्ष्मणशत्रुप्रयोरपि राज्यसाधारण्यं किं न स्यादित्याशङ्कय तयोस्तत्परतन्त्रत्वान्न साधारण्यमित्याह-लक्ष्मणो हीति । सर्वात्मना सर्वप्रकारेण रामं गतः प्राप्तः ॥ ६ ॥ लक्ष्मणशत्रुघ्रयो राज्यसाधारण्याभावे युक्तयन्तरमाह-प्रत्यासन्नक्रमेणेति । प्रत्यासत्रक्रमेण जन्मप्रत्यासक्तिक्रमेणापि भरतस्यैव राज्यक्रमः सन्निहित इति शेषः । यवीयसोर्लक्ष्मणशत्रुघ्नयोः राज्यक्रमो विप्रकृष्टः दूरापास्त इत्यर्थः ॥ ७ ॥ विदुष इति । क्षत्रचारिषे राजनीतिविषये । विदुषः प्राप्त कारिणः अविलम्बेन कालोचितकर्तव्यार्थकारिणः रामस्य भयात् ॥ ८ ॥ कैकेय्या ईप्योत्पादनार्थे कौसल्यासौभाग्यं दर्शयति-सुभगेत्यादिना । यौवराज्येनेति
For Private And Personal Use Only
21.37.ant.
स० ८
॥३२॥