SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander अथ कुमतिजनसंसर्गवशेन महतामपि कदाचिच्चित्तचलनं स्यादित्यमुमर्थ द्योतयन्नाद-मन्थरेत्यादि । अभ्यसूय असूयां कृत्वा । एनां प्रतीति शेषः । कोपदुःखसमन्विता हितं न शृणोतीति कोपः, आममिष्यत्यनर्थ इति दुःखम् ॥ १॥ हर्षमिति । हे बालिशे अज्ञे ! अस्थाने अनुचितकाले, हर्ष कृत। *वत्यसि किमिदम् ? अब कारणं न जानामि । अस्थानकृतत्वमाह शोकेति॥२॥ मनसेति । इदं रामाभिषेकरूपं महव्यसनं प्राप्य तेनैव हेतुना शोचितव्ये मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत् । उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥१॥ हर्ष किमिदमस्थाने कृतवत्यसि बालिशे । शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२॥ मनसा प्रहसामि त्वां देवि दुःखार्दिता सती। यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥३॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् । अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥ ४॥ भरतादेव रामस्य राज्यसाधारणाद्भयम् । तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥५॥ विषये हृष्टासीति यत्,अतोहं दुःखार्दिता सती त्वां मनसा प्रहसामि यथोन्मत्तप्रभुदर्शने ॥३॥ एवं बालिशत्वमन्वयमुखेन दर्शयित्वा व्यतिरेकमुखेनापि दर्शयति-शोचामीति । ते दुर्मतित्वं दुष्टवुद्धित्वम् शोचामि । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वम् । मृत्योरिव सपत्नीपुत्रस्यारेरागता वृद्धि का हि प्राज्ञा का वा प्रशस्तबुद्धिः। प्रहर्षयेत् प्रहर्षसाधनं कुर्यात् । “तत्करोति-" इति णिच् । हर्ष इति करणे घम् प्रत्ययः। लालयेदितिवार्थः॥४॥ उक्तां व्यसनमहत्ता दर्शयति-भरतादिति । राज्यं साधारणं यस्य तस्माद्भरतादेव रामस्य यद्यं तद्विचिन्त्य विषण्णास्मि । रामस्य भयमस्तु, भरतस्य किमित्यत आह भय 5I अबोचः तथा सर्वप्रियेभ्योधिकं प्रियं श्रीरामाभिषेकरूपमवोचः उक्तवत्यसि अनः प्रियोत्तरं प्रियाख्यानस्योत्तरं पारितोषिकरूप परमन्य वर वरणीयं वस्तुविशेष ते तुभ्यं प्रददामि । तं वृणु वृणीष्वेति योजना ॥ ३६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो सप्तमः सर्गः ॥७॥ मन्थरेति । अभ्यसूय असूयां कृत्वा ॥१॥ हर्षमिति । बालिशे मूर्खे ! अस्थाने अप्रहर्षविषये हर्ष कृतवत्यसि, इदं किं चित्रमित्यर्थः । आत्मानं त्वा ॥२॥ मनसेति । यद्यस्मान्महदिदं व्यसनं रामराज्यप्राप्तिरूपां विपदं प्राप्य शोचितव्ये हृष्टासि तस्मात् दुःखादिता परमदुःखेन पीडिताअहं त्वां मनसा अहसामि ॥२॥ शोचामीति। ने तव । दुर्मतित्वं दुष्टपुद्धित्वम् । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वम् । मृत्योरिव मृत्युतुल्यस्य सपत्नीपुत्रस्य अरेः शत्रोः श्रीरामस्य आगतां प्राप्ता वृद्धि - राज्यश्रियं का हि प्राज्ञा ऊहापोहसमर्था का हि का वा प्रहर्षयेत् प्रहर्षसाधनं कुर्यात् ॥४॥ भरतादिति।राज्यसाधारणात राज्यं साधााणं यस्य तस्माद्भरतादेव रामस्य । For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy