________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प.रा.भू.
॥३ ॥
स०७
करसहिता ॥२९॥ सेति । विस्मयदर्शने आश्चर्यावहज्ञानयुक्ते । तत्तत्कालोचितकर्तव्यनिरूपणचतुर इत्यर्थः । यद्वा अनेन हितकरणहेतुदशरथवशी टी.अ.का. करणसाधनसौन्दर्य सूच्यते ॥३०॥ एवं देवावेशवशाद्विपरीतवाक्यया मन्थरयोक्तापि कैकेयी महाकुलप्रसूतत्या सत्प्रकृतिः सती रामाभिषेकं स्वहितं । मन्यमानाह-मन्थराया इति ॥३२-३३॥ इदं विति । एतत्प्रियमाख्यातुः आख्याच्यास्ते किंवा करोमीति सम्बन्धः । एतन्मे प्रियमाख्यातमितिपाठे
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० ॥ मन्थराया वचः श्रुत्वा शयाना सा शुभानना । उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥३१॥ अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता। एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ ३२॥ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा । कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥३३॥ इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् । एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥ ३४ ॥ रामेवा भरते वाहं विशेष नोपलक्षये। तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषे क्ष्यति ॥३५॥ न मे परं किञ्चिदितस्त्वया पुनः प्रियं प्रियाहे सुवचं वचः परम् । तथा ह्यवोचस्त्वमतः प्रियोत्तरं
परं वरं ते प्रददामि तं वृणु॥३६॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तमः सर्गः॥७॥ आख्यातं एतत्प्रियमुद्दिश्य ते भूयः किंवा करोमीति सम्बन्धः ॥ ३४ ॥ ननु सपत्रीपुत्रे कथं तवैतादृशी प्रीतिरित्यवाह-राम इति ॥ ३५ ॥ नेति । हे । प्रियाहें प्रियदानाहे ! मे इतःपरं रामाभिषेककथनादन्यत किञ्चित् प्रियं अभिमतम् । परं वचस्त्वया पुनर्न सुवचं वक्तुं शक्यम् । हि यस्मात् कारणात् । त्वं तथा सर्वप्रियेभ्योऽधिकं प्रियं रामाभिषेकरूपम् । अवोचः उक्तवती । अतः प्रियोत्तरं प्रीतिविषयेषु श्रेष्ठम् "उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः" इत्यमरः। परं । अन्यम् । वरं वरणीयं वस्तुविशेषं ते तुभ्यं प्रदामि । तं वृणु वृणीष्वति योजना ॥३६॥ इति श्रीगो श्रीरामा० पीता. अयोध्याकाण्ड० सप्तमः सर्गः ॥७॥ मित्रादिसहिता ॥ २९ ॥ सेति । सा त्वं प्राप्तकालं प्राप्तावसरम् । विस्मयदर्शने अद्भुतदर्शने, तत्कालोचितोपायविचारकुशले इत्यर्थः ॥ ३०-३३ ॥ इदमिति । मे ॥३१॥ पतत्मियं भूयः आख्यातुं ते किंवा करोमीति सम्बन्धः । आख्यातमिति पाठे-आख्यातमेतत्प्रियमुद्दिश्य ते भूयः किं करोमीति सम्बन्धः ॥ ३४ ॥ ३५॥ न मे परमिति । हे प्रिया ! मे इतःपरं रामाभिषेकादन्यत् किश्चिद प्रियमभिमतम् परं वचः श्रेष्ठं वचः त्वया पुनर्न वचं वकुमशक्यम् । हि यस्मात्कारणात् त्वं तथा
For Private And Personal Use Only