________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शुद्धस्वभावेनोपलक्षित जानीषे । तथा न मन्तव्यम्, यतस्तेनैवम् अतिसन्धिता वञ्चिता ॥ २४ ॥ शठत्वमेवाह-उपस्थितमिति । उपस्थितं तत्कालो | चिततया भाषितम् । अनर्थकं त्वदर्थनाशनम् । त्वयि सान्त्वम् अनुसरणं प्रयुआनः कौसल्यामर्थेन योजयिष्यति ।।२५|| अतिसन्धानप्रकारमाह-अप वाह्येति । अपवाह्य उद्वास्य । कालमर्हतीति काल्यम् । अ]ि यत् । श्वःप्रातरित्यर्थः ॥ २६ ॥ शत्रुरिति । हे बाले मुग्धे ! आगाम्यननभिज्ञे इति ।
उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २५॥ अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु । काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २६॥ शत्रुः पतिप्रवादन मात्रेव हितकाम्यया। आशीविष इवाङ्केन वाले परिहृतस्त्वया ॥२७॥ यथा हि कुर्यात सो वा शत्रुर्वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २८॥ पापेनानृतसान्त्वेन बाले नित्यसुखोचिते । रामं स्थापयता
राज्ये सानुबन्धा हता ह्यसि ॥२९॥ यावत् । पतिप्रवादेन पतिव्यपदेशेन । शत्रुः छन्नहृदयः शात्रवः पतिः । त्वया ऋजुप्रकृति कया मात्रेव सपशिशु पोषयिव्येव । हितकाम्यया हितप्रापणे च्छया । आशीविष इव छन्नविषः सर्प इव । अङ्केन उत्सङ्गेन । परिहतः परिधृत इत्यर्थः । यदा अङ्केन परिहतः अङ्कान्न परिहतः किन्तङ्क एवं धृतो पलालितः। यथा सर्पपोपयित्री बाला सर्पस्यान्तर्विषमज्ञात्वा केदलं हितकाम्ययाङ्के सर्पमुपलालयति तथा त्वमपि बाला भर्तुः कुटिलहृदयमजानती विश्वस्य तमले उपलालयसीत्यर्थः । यथाङ्कोपलालित आशीविषः कदाचिद्धितपरामपि पोषयित्री दशेत, एवं ते भापि विश्वस्तां त्वामर्थहीना कार| येत । अतस्स आशीविप इव नानुसरणीयस्त्वयेति भावः ॥२७॥ एवं गम्यमर्थ विशदयति-यथेति ॥२८॥ पापेनेति । सानुबन्धा पुत्रमित्रादिपरि। अतिसन्धिता अत्यन्तं वचितेत्यर्थः ॥ २४ ॥ उपस्थितः त्वत्समीपे स्थितः । उपस्थितमिति पाठे सान्त्वविशेषणम् । उपस्थितं तत्कालोचितमिति यावत् । सान्त्वं प्रियवचनम् । अनर्थकं निरर्थकं फलरहितं त्वयि प्रयुञानः अर्थेन राज्यरूपप्रयोजनेन कौसल्यामेव योजयिष्यति ॥२५॥ अपवाद्येति । भरतं वन्धुप्वपवाद्य बन्धुदर्शनव्याजेनान्यत्र नीत्वा काल्यं आगामि श्वः प्रातःकाले रामं राज्ये स्थापयिता स्थापयिष्यति ॥ २६ ॥ शत्रुरिति । हे बाले ! पतिप्रवादेन पतिव्यपदेशेन | शत्रुः, मात्रेव हितकाम्यया हितकामनायुक्ततया हिताचरणेन मात्रेव मातृतुल्यया त्वया अड्रेनाशीविषः सर्प इव परिधृत इति योजना । परिहत इति पाठे-बाले अपरिहत इति छेदः । पतिरूपः साक्षाच्छत्रुस्त्वया अपरिहृतः । वस्तुतस्तु त्याज्य एवेति दुर्बुद्धिमुपदिशतीति ज्ञेयम् ॥ २७ ॥ २८ ॥ पापेनेति । मानुबन्धा पुत्र
For Private And Personal Use Only