________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kalassagarsur Gyarmandir
टी.प्र.का
वा.रा.भ.
॥३॥
कैकेयीति । कच्चित् क्षेमम्, मह्ममिति शेषः ॥ १७॥ मन्धरेति । क्रोधसंयुक्ता रामाभिषेकाविचारणादिति भावः ॥ १८ ॥ सति । विषादयन्ती भेदय न्तीति शतद्वयं हेत्वर्थम् । राज्यश्रियो ज्ञातिगामित्वानिष्टप्रकाशनेन विषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविषयस्तहमदनरला नत्यर्थः ॥ १९॥
कैकेयी त्वब्रवीत्कुब्जां कच्चित् क्षेमं न मन्थरे । विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ ७॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् । उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ ८॥ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी । विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १९॥ अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्धि नाशनम् । रामं दशरथो राजा यौवराज्यभिषेक्ष्यति ॥२०॥ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता । दह्यमानानलेनेव त्वद्धितार्थमिहागता॥२१॥ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् । त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२२॥ नराधिपकुले जाता महिषी त्वं महीपतेः । उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
॥ २३ ॥ धर्मवादी शठो भर्ता श्वश्णवादी च दारुणः । शुद्धभावेन जानीषे तेनैवमतिसन्धिता ॥२४॥ अक्षय्यमिति । अक्षय्यं अशक्यप्रतीकारम् । त्वविनाशनं त्वद्विनाशः। भावे ल्युट् ॥२०॥ सति । दुःखशांकसमन्विता अनभिमतरामाभिषेकश्रवणजनित व्यसनजं दुःखम्, अभिमतभरताभिषेकराहित्यजः शोकः ताभ्यां समन्धिता ॥२१॥ ननु मम दुःखादिहेतौ सति कुतस्ते दुःखप्रसक्तिरित्यत्राहतवेति ॥२२ ।। ननु रामाभिषेकमावं कथं मे दुःखहेतुरित्यत्राह-नराधिपेति । उग्रत्वं क्रौर्यम् ॥२३॥ ननु मत्प्रियः कथमनिष्टं करिष्यतीत्यत्राहधर्मवादीति । धर्मवादीव भासमानः । वस्तुतः शठः गूढविप्रियकृत् । श्लक्ष्णवादी कण्ठादुपरि प्रियवचनशीलः । दारुणः क्रूरकर्मकारी । एवम्भूतमेनं जनयन्तीत्यर्थः ॥ १९ ॥ अक्षय्यमिति । मद्विनाशनं स्वद्विनाशकरम् ॥२०॥ सेति । दुग्वशोकसमन्विता-शोकः प्रलापादिः, दुःखं मनोव्यथा ताभ्यां समन्विता त्वद्धितार्थ त्वदीयदुःखं परिहर्तुमित्यर्थः ॥ २१ ॥ २२ ॥ नराधिपेति । उपत्वं क्रौर्यम् ॥ २३ ॥ धर्मवादीति । वाइमाबेण धार्मिक, वनुतस्तु शठः गूढविपियकारी लक्षणवादी त्वां प्रति कण्ठादुपरि प्रियवचनशीलः। दारुणः कृरहृदयः। शुद्धभावे इति सम्बोधनम्। शुद्धहदये ! नमेवंविधं न जानीये,पवं पोंक्तरीत्या नेन दशरथेन
॥३॥
For Private And Personal Use Only