SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्यति ॥ ९ ॥ विदीर्यमाणेति । हर्षेण विदीर्यमाणा अन्तर्गत हर्षोत्कट्या देह पोषमुखविकासादिना बहिः प्रसरणात् विदीर्यमाणेोपलक्षिता । परया मुदा आचचक्षे स्वनिर्भरानन्दसन्दोहपरिवाहस्य पात्रभूता काचिलब्धेति परमानन्दयुक्ता सती प्रतिकूलायै तस्यै अकथनीयमप्यकथयदिति भावः । राघवे श्रियं राघवे न्यस्यमानां राज्यलक्ष्मीम् ॥ १० ॥ श्व इति । पुष्येण युक्ते श्वः उत्तरदिने । जितक्रोधमनघमित्यभिषेकोपयुक्त गुण जातोपलक्षणम् विदीर्यमाणा हर्षेण धात्री तु परया मुदा । आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् ॥ १० ॥ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् । राजा दशरथो राममभिषेचयिताऽनघम् ॥ ११ ॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता । कैलासशिखराकारात् प्रासादादवरोहत ॥ १२ ॥ सा दह्यमाना कोपेन मन्थरा पापदर्शिनी । शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ १३ ॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्त्तते । उपप्लुतमघौघेन किमात्मानं न बुध्यसे || १४ || अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे । चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ १५ ॥ एवमुक्ता तु कैकेया रुष्टया परुषं वचः । कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १६ ॥ यौवराज्येनाभिषेचथिता, यौवराज्यार्थमभिषेचयितेत्यर्थः ॥ ११ ॥ धात्र्या इति । अवरोहत अवारुहृत् ॥ १२ ॥ १३ ॥ उत्तिष्ठेति । उपप्लुतं उपहतं अघौघेन अधं दुःखं " अंहोदुःखव्यसनेष्वधम् " इत्यमरः । “ओघो वृन्देऽम्भसां रये” इत्यमरः ॥ १४ ॥ अनिष्ट इति । वस्तुतः राज्ञोऽनिष्टे सुभगा ॐ कारे आपाततः सौभाग्यवतीव भासमाने ! असुभगाकार इति वा छेद्रः । सौभाग्येन हेतुना विकत्थसे ममैव सौभाग्यमस्तीत्यात्मानं श्लापसे इयमुक्तिः पूर्वकालिकात्मश्लाघापरेत्यवगन्तव्या । इदानीं मत्सौभाग्यस्य का हानिरित्यत्राह चलं हीति । उष्णं गच्छतीत्युष्णगः ग्रीष्मकालः ॐ तस्मिन् । नद्याः स्रोत इव चलं क्षीणमित्यर्थः ॥ १५ ॥ एवमिति । परुषं वच उक्ता " अप्रधाने दुहादीनाम् ” इत्यप्रधाने कर्मकारके निष्ठा ॥ १६ ॥ ॐ किमत्र कारणम् ॥ ९ ॥ विदीर्यमाणा रोमाञ्चितगात्रा । राघवश्रियं राघवे न्यस्यमानां श्रियं राज्यलक्ष्मीम् ॥ १० ॥ अनघं भ्रातृषु वैषम्यरूपदोषरहितम् ॥ ११-१३ ॥ अघौघेन दुःखपरम्परया उपप्लुतं पीडितमात्मानम् । किं न बुध्यसे किं न जानासि ॥ १४॥ अनिष्ट इति । सुभगाकारे शोभनाकारे। अनिष्टे भर्तुरप्रिये । सौभाग्येन पतिवाल्लभ्येन । विकत्थसे आत्मानं वृथा श्लाघसे । उष्णगे उष्णं गच्छतीत्युष्णगे निदाघकाले ॥ १५ ॥ सा विषण्णतरेति । राघवं भेदयन्ती रामं प्रति कैकेय्या विरोधं For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy