________________
Acharya Shri Kalassagarsun Gyarmandie
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
ना.रा.भ.
॥२९॥
वराहाभिः श्रेष्ठाभिरित्यर्थः । छन्दपथैर्वृतां स्वच्छन्दगमनयोग्योपवीथीभिरावृताम् । शिरःसातैः शिरसा सातैः, रामोपायनार्थ माल्यमोदकहस्तैः। शुकटी .अ.का. दिवगृहदारामिति शुक्लानि सुधाधवलितानि देवगृहद्वाराणि यस्याम् । ब्रह्मघोषाभिनादितां ब्रह्मयोपेः वेदपारायणघोषैः अभिनादिताम् । “ वेदस्तत्त्वं तपो ब्रह्म" इत्यमरः। रामाभिषेकस्य तिरश्चामप्यानन्दावहत्वात् 'प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्' इत्युक्तम् । गोवृषाः गोपुङ्गवाः । प्रदृष्टमुदितः ।।
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् । शुक्लदेवगृहद्वारा सर्ववादित्रनिस्वनाम् ॥ ४॥ संप्रहृष्टजनाकीर्णा M ब्रह्मघोषाभिनादिताम् । प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥५॥ प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् ।
अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता॥६॥प्रहर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम् । अविदूर स्थितां दृष्ट्वा धात्री पप्रच्छ मन्थरा ॥७॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती। राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति
॥८॥ अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे । कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥९॥ प्रहृष्टाः सनातरोमाञ्चादिगात्रविकाराः, मुदिताः मानससन्तोषयुक्ताः तैः । उच्छितेत्या प्रकृतोत्सवकृतध्वजसम्बन्धउच्यते। ध्वजेश्च समलंकृतामित्यत्र नित्यबध्वजत्वमुक्तम्॥३-६||होत्फुल्लनयनामिति । धात्रीम् उपमातरम् । “धात्री स्यादुपमाता"इत्यमरः । प्रहर्षोत्फुल्लनयनामित्यादिविशेषणादियं रामोपमाता ॥७॥ उत्तमेनेति । अर्थपरा सती अर्थपरा सत्यपि । उत्तमेन हर्षेणाभिसंयुक्ता धनं प्रयच्छति किम् । यद्वा अर्थपरा उत्तरोत्तरार्थाभिवृद्धयै धनं । प्रयच्छति। नामग्रहणस्यासह्यत्वादाममातेत्युक्तिः ॥८॥ अतिमात्रेति । जनस्यायमत्यन्तप्रहर्षश्च किं किमर्थम् किंनिमित्तं वा, महीपतिः किं कर्म कारयि सूक्ष्मध्वजः। ध्वजैः स्थूलध्वजैः। छन्नपथैःपूरितनिनोन्नतप्रदेशैर्मार्गः तः। कृताम् अलंकृताम् । छन्दपधैरिति पाठे-छन्दपथानाम उत्सवादिषु जनभूयस्त्वेन स्वैरप्रवेश निर्गमनार्थप्राकारादिभङ्गेन ये क्रियन्ते ते ज्ञेयाः। शिरस्स्नातजनः कृतमङ्गलस्नानजनैः वृता, माल्पमोदकहस्तैश्च श्रीरामोपासनार्थं माल्यमोदकरूपमङ्गलद्रव्याणि Mहस्तेषु दधानेरित्यर्थः । शुक्कानि सुधाधवलितानिदेवगृहाणां द्वाराणि यस्यां ताम्। ब्रह्मघोषाभिनादिताम् ब्रह्म वेदः । प्रहष्टाः सनातरोमामादिगावधिकाराः, मुदिताः|MI मानससन्तोषयुक्ताः तैः संप्रणदितगोवृषाम्-श्रीरामाभिषेकात्तिरश्चामपि महषों जात इत्यर्थः ॥३-६॥ प्रहति । धात्री बालानां स्तन्यप्रदायिनीम् ॥ ७ ॥ उत्तमेनेत्यादि। अर्थपरा धनसंग्रहपरापि कौसल्यायो प्रद्वेषादर्यपरेत्युक्तवती राममाता जनेभ्यः धनं संप्रयच्छति किं नु किं कारणम् ।।८।। जनस्य अतिमात्र प्रहर्षी दृश्यत इति शेषः।
For Private And Personal Use Only