________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
अथ रावणवधकातिभिर्देवैराविष्टमन्थरावाक्याद्रामाभिषेकविघ्नः प्रतिपाद्यते-ज्ञातिदासीति । पूर्वसमें 'गते पुरोहिते' इत्यादिना 'तूर्यघोषानुनादितः । इत्यन्तेन पूर्वदिवसे अभिषेकाङ्गभूतत्रतोपवासादिकमाचरतो रामस्य वृत्तान्तमभिधाय 'कृतोपवासं तु तदा' इत्यारभ्य सर्गपर्यन्तेन रामाभिषेकश्रवण , जनितानन्दनिर्भराणां पौराणां जानपदानां च जनानां रामाभिषेकदिवसप्राक्तनवृत्तान्तमभिधाय वाचःक्रमवर्तित्वापिः पूर्वदिवसप्रवृत्तकैकेयीवृत्तान्तं वकुमुपक्रमते ज्ञातिदासीत्यादिना । केकेय्याः ज्ञातिदासी केकेयीबन्धुदासी “सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः " इत्यमरः । यतोजाता है
ज्ञातिदासी यतोजाता कैकेय्यास्तु सहोषिता । प्रासादं चन्द्रसङ्काशमासरोह यदृच्छया ॥१॥ सिक्तराजपथा रेम्यां प्रकीर्णकुसुमोत्कराम् । अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२॥
पताकाभिवराहाभिवजैश्च समलंकृताम् । वृतां छन्दपथैश्चापि शिरःनांतजनैताम् ॥३॥ यत्रकुत्रचिजाता। अविज्ञातदेशमातापितृ केत्यर्थः । अतः कैकेय्याज्ञातिदासीत्वमपि स्वोदरपपूरणार्थं कृतमित्यवगन्तव्यम् । सहोपिता सहावस्थिता। मन्थरायाः केकेय्या सहावस्थानमपि हास्यहेतुभूतकुब्जात्वनिबन्धनम् । यदृच्छया स्वैरतया । " यदृच्छा स्वैरता" इत्यमरः । यद्वा यतोजाता यतः कुतश्चिजाता । तादृशीनामयोध्यायां जननासम्भवात् । यदा तन्नाम जातिनिरूपणायोग्यतया तथा निर्देशः । आचार्यास्तु-देवरेवं स्वकार्यार्थ कैकेयी भेदयितुं प्रेषितेति देवरहस्यस्य गोप्यतया तथानिदेश इत्याहुः॥१॥सिक्तराजपथामिति । प्रासादादन्यवक्षत पूर्वश्शोके आरोहणस्योक्तत्वात्प्रासादा दित्यस्यान्वक्षतेत्यनेन सम्बन्धः। “अधिकरणे चोपसङ्ख्यानम्" इत्यधिकरणेल्यब्लोपे पञ्चमी। प्रासादे स्थित्वा प्रेक्षतेत्यर्थः ।।२।। पताकाभिरित्यादि। पूर्वसर्ग गते पुरोहिते रामः' इत्यारभ्य 'पूर्वा सन्ध्याभुपासीनः' इत्यन्तेन ग्रन्थसन्दर्भेण सूर्योदयपर्यन्तं रामवृत्तान्तमनुवर्ण्य संप्रति कैकेय्याः पूर्वदिवसवृत्तान्त । मनुसन्धत्ते ज्ञातिदासीत्यादिना । कैकेय्याः ज्ञातीनां बन्धूनां दासी यतोजाता यत्रकुत्रचिजाता, अविज्ञातमातापितृकेत्यर्थः । अतोऽस्याः केकेय्या दासीत्वमपि स्वोदरपूरणार्थ स्वीकृतमित्यवगन्तव्यम् । सहोषिता कैकेय्या सह स्थिता । चन्द्रमंकाशं सुधाधवलितत्वात । प्रासाद हर्म्यम् ॥१॥ सितेति । प्रासादात प्रासादमधि रुह्येत्यर्थः । ल्यग्लोपे पचमी । कृत्स्नामयोध्याम् अन्वक्षत । एतच्चाभिषेकदिवसापूर्वेयुर्वृत्तान्तमिति ज्ञेयम् ॥२॥ पनाकाभिरिति। वराहाभिः श्रेष्टाभिः । एनाकाभिः
१. काम । ५ प्रकीर्णकमलोत्पलम् । ३ वृत्तां स्वच्छन्दपधगः । वृतांजानपदवापि । कुन्निपश्चापि । ४ बलालन्दगपत्तिाम इसे पाठान्तरम् ।
For Private And Personal Use Only