________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का. ...
वा.रा.भू. शलोकपरावरः दृष्टे ये लोके परावरे उत्कृष्टापकृष्टवस्तुनी येन स तथोक्तः॥२०-२१॥ एवंविधमिति ! श्रुतवृत्तान्ताः श्रुतरामाभिषेकवार्ताः। अतएव
Mailदिग्भ्यःप्राप्ताः जानपदा जनाः एवंविधं कथयतां पौराणांशशुवुः । एवंविधं वाक्यजातमित्यर्थसिद्धम् ॥२६॥ ते विति । पूर्वदिने सकलजनसन्निधौ रामा ॥२८॥
भिषेकस्य प्रतिश्रुतत्वाद्रामस्य पुरीमिति निर्दिष्टवानृषिः॥२६॥ जनपिरिति । विसर्पद्भिः नानादेशेभ्य जागच्छद्भिः । उत्पादित इतिशेषः । उदीर्ण
अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२३॥ चिरञ्जीवतु धर्मात्मा राजा दशोऽनघः। यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥२५॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥ जनौघेस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः । पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः॥२७॥ ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतः। समन्ततः सस्वनमाकुलं बभौ
समुद्रयादोभिरिवार्णवोदकम् ॥२८॥ इत्या श्रीरामायणे वाल्मीकीये आदीकाव्ये श्रीमदयोध्याकाण्डे षष्ठः सर्गः॥६॥ वेगस्य उज्जृम्भितवेगस्य ॥२७॥ तत इति । इन्द्रायः इन्द्रगृहम् “निवेशः शरणंक्षयः" इत्यमरः। अयोध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्र भवनदृष्टान्तीकरणादयोध्याया अतिरमणीयता द्योत्यते । जानपदैः समन्ततः आकुलमिति सम्बन्धः । समुद्रयादोभिः समुद्रान्ततितिमितिमिङिलादि जन्तुभिः । “यादांसि जलजन्तवः" इत्यमरः । कर्णावतंसादिपदवदविश्लेषप्रदर्शनाय समुद्रशब्दः । यद्वा समुद्यादोभिः समुद्रगामिनीभिर्नदीभिः “यादो नपुंसकम्” इति यादःशब्दस्य नदीवाचकत्वेपि नपुंसकत्वं पाणिनीयलिङ्गानुशासनोक्तम् । उदकशब्देन सस्वनत्वमुक्तम् ॥२८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पठः सर्गः ॥६॥ अनुगृहीताः परमेश्वरेणेति शेषः । दृष्टलोकपरावरः-दृष्टे लोकपरावरे उत्कृष्टापकृष्टवस्तुनी येन सः तथोक्तः ।। २२-२४ ॥ एवमिति । श्रुतवृत्तान्ताः दिग्भ्यः प्राप्ता जनपदाः जनाः पौराणां कथाः शुश्रुबुरित्यन्वयः ॥२५ ॥२६॥ जनोरिति । उदीर्णवेगस्य उत्कृष्टवंगस्य ॥ २७ ॥ तत इति । इन्द्रक्षयः इन्द्रनिवासः, अमराव, तीति यावत् । अयोध्यानगरं समुद्रयादोभिः-समुद्रान्तर्वतिमिस्तिमितिमिङ्गलादिजलजन्तुभिः ॥ २८ ॥ इति श्रीमहे श्रीरामा तत्वदी० षष्ठः सर्गः ॥ ६॥
स.-" भूमिविद्युत्सरिकतावनिताभिधानानि " इति लिङ्गानुशासनसूत्रे सरिद्वाचिनां शब्दाना स्त्रीत्वमभिशाप “यादो नपुंसक वादश्शब्दस्सरिदाच कोधि श्रीवः स्थान " इति यादश्शन्दस्य नदीवाचकत्योक्त समुद्रपादोभिः समुद्रसंगतनदीभिरिवेति वा ॥ २८ ॥
-
an
For Private And Personal Use Only