________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥३३॥
www.kobatirth.org
"दूरभार्यो ननुकू उभार्यश्च दर्भपिलैर्भार्याप्रतिनिधिं विधाय पार्वणं कुर्यात् " इति । पत्नी कर्त्तव्यानि कर्माण्यध्वर्युर्यजमानो वा कुर्यात् । यथा तस्या मसमर्थायां पत्नीविनाशाभावान्नाग्रेर्विनाशः । यत्तु येन केनचिदुक्तं सीताप्रतिकरणं सीता स्नेहबहुमानार्थमिति तत्तुच्छम् । संत्यक्तभार्यायां स्नेहबहु मानकरणस्यावद्यावद्दत्वात् । 'मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि च।' इत्यत्र मे मातरः भरतादीनां कुमाराः स्त्रियश्चेत्यर्थः । दारान्तरसम्भवेपि तेषां धर्मार्थत्वेन प्रजार्थत्वाभावेन रामस्य कुमाराभावात्तत्सहचरितस्त्रीगणाश्च भरतादीनामेवेति सुव्यक्तम् । एवं च “ रामस्य परमाः स्त्रियः । परम
तां वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः । रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ १३ ॥ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः । रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ १४ ॥ भ्रातॄन भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति । सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ १५ ॥ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् । पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandin
नारीणाम् । स्त्रीभिश्च मन्ये " इत्यादिषु भोगप्रसञ्जनेन धर्मदारपरत्वासम्भवात् साधारणादिपरिग्रहशङ्का नवकाशाञ्चान्यपरत्वमवसेयम् । परमाः स्त्रिय इति परिचारिकान्तर्भावेन । स्त्रीभिश्व मन्य इति स्वविनाशे रूयन्तरसम्भावनया । परमनारीणामित्यस्य कविवचनत्वेन श्रीभूम्याद्यभिमर्शविषयत्वाच्चेति | दिक् ॥ १२ ॥ रामस्यैवंविधगुणत्वे हि त्वदुक्ता दोषाः स्युस्तदेव नास्तीति मूळे कुठारं निधातीत्याह-तामिति । अप्रीतामिति पदच्छेदः । क्षोभ हेतौ नितरां विद्यमानेप्यक्षोभ्यमनस्कत्वाद्देवीति तामृषिः श्लाघते ॥ १३ ॥ मन्थरोक्तराज्यसाधारण्यं निवर्तयति-धर्मज्ञ इति । दान्तः दमितः । दान्तस्तु दमिते " इत्यमरः । शिक्षित इत्यर्थः । कृतज्ञः सत्पुत्रसमाचारज्ञ इत्यर्थः ॥ १४ ॥ अथ भरतानर्थशङ्कां परिहरति-भ्रातृनिति ॥ १५ ॥ राज्यं च भरतस्य क्रमाद्भविष्यतीत्याह-भरत इति । वर्षशतात्परं रामराज्यात्परमित्यर्थः । दशवर्षसहस्राणि रामो राज्यं पालयिष्यतीति कैकेयी न जानाति अतो लोकरीत्या वदतीति ज्ञेयम् । अवाप्तेति लुट् । स्वानन्तरं भरतस्य राज्यलाभाय सम्प्रति तस्मै यौवराज्यं दास्यतीत्यर्थः ॥ १६ ॥ त्राप्येवमेवेति ज्ञेयम् । भरतक्षये भरतगृहे ॥ १२ ॥ तामिति । परमप्रीतामित्यत्र परम् अप्रीतामिति छेदः ॥ १३ ॥ मन्थरोक्तं राज्यसाधारण्यं निवर्तयति-धर्मज्ञ इत्यादिना । गुरुभिर्दान्तः गुरुभिस्तुशिक्षित इत्यर्थः ॥ १४ ॥ १५ ॥ भरत इति । वर्षशतात्परं रामराज्यानन्तरमित्यर्थः । अन्यदा दशवर्षसहस्राणीत्युक्ति
For Private And Personal Use Only
टी.अ.का.
स०८
॥३३॥