________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्तरत्र " एतावदुक्त्वा वचनं गन्धर्वाः सहमर्षयः । राजर्षयश्चैव " इत्यत्र व्यक्तीभविष्यति ॥ २ ॥ स धन्य इति । धर्मविक्रमौ धर्मशूरौ । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामदे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः । वयं ययोरुभयोः सम्भाषां श्रुत्वा स्पृहयामदे तादृशौ धर्मज्ञो घर्मविकमौ द्वौ पुत्रौ यस्म
सधन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयोः स्ष्टहयामहे ॥ ३ ॥ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववषिणः । भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ ४ ॥ कुले जात महाप्राज्ञ महावृत्त महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ ५ ॥ सृदानृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाच्च कैकेय्याः स्वर्ग दशरथो गतः ॥ ६ ॥ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥७॥ बादितस्तेन वाक्येन शुभेन शुभदर्शनः । रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥८॥ स्रुस्तगात्रस्तु भरतः स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ ९ ॥ राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ १०॥ रक्षितुं सुमहद्राज्य महमेकस्तु नोत्सहे। पौरजानपदांश्चापि रक्तान रञ्जयितुं तथा ॥ ११ ॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥ १२ ॥
स धन्य इत्यन्वयः ॥ ३ ॥ तत इति । सङ्गताः ऐककण्ठ्यं प्राप्ताः ॥ ४ ॥ कुल इति । पितरं यद्यवेक्षसे पितरं सुखास्थितं यदि मन्यस इत्यर्थः ॥ ५-८॥ | स्रस्तगात्र इति । सज्जमानया स्खलन्त्या स्वमनोरथस्य सर्वथा असिद्धत्वात् शिथिलगात्रत्वं सज्जमानवात्तत्वं च ॥ ९ ॥ राजधर्ममिति । राजधर्मे राज्यपरि पालनधर्मम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुस्यूतिम् ॥ १० ॥ ११ ॥ ज्ञातय इति । सुहृदः शोभनहृदयाः । पर्जन्यं रसदन्दम् इन्द्रं वा प्राप्ताः । ऋषिगणाः राजर्षिगणाः, सिद्धा देवजातिविशेषाः । परमर्षयः देवर्षयः ॥ २ ॥ स धन्य इति । धर्मविक्रमों धर्ममार्गवर्तिनावित्यर्यः । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामहे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः ॥ ३ ॥ तत इति । सङ्गताः ऐक्यं प्राप्ताः ॥ ४ ॥ पितरं यद्यवेक्षसे पितरं सुखावस्थितं मन्यस |इत्यर्थः ॥ ५८ ॥ स्रस्तगात्र इति । सज्जमानया स्खलन्त्या ॥९ राजधर्म प्रजापालनरूपम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुक्रमणम् ॥ १० ॥
For Private And Personal Use Only