________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
टी.अ.का.
वा.रा.भ.
॥३२७॥
प्रतिनिधिस्वीकारः। अहं तु वनवासे शक्तः अतः प्रतिनिध्याचरणं न पितृऋणमोचनमित्याइ-उपधिरित्यादिना । उपधिः प्रतिनिधिरित्पर्यः । मया ।। शक्तेन जुगुप्सितः हीनकल्पत्वेन निन्दितः। “हीनकल्पं न सेवेत पुरुषो विभवे सति" इति वचनादिति भाषः। कैकेय्या युक्तं योग्यमेवोक्तं पित्रा च म० १११
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥३०॥ अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः । भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥३१॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततमः सर्गः॥ १११॥
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताःसङ्गमं प्रेक्ष्य समवेता महर्षयः॥१॥
अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः । तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥२॥ सुकृतं धये कृतम् आवाभ्यां तदकरणे हीनकल्पकरणे च पितुरनृतं स्यात् ॥२९-३१॥ वृत इति । पितरम् अनेन राज्यपरिपालनेन अनृतात मोचयेत्यर्थः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ ११ ॥ अथ भरतस्य समाधानं कृता प्रस्थापनं द्वादशोत्तरशततमे-तमित्यादि । भातृभ्यां सङ्गम भातृभ्यामन्योन्यसौहार्दैन कृतं सङ्गम प्रेक्ष्य विस्मिता अभूव नितिशेषः ॥१॥ अन्तर्हिता इति । अन्तर्हिताः पूर्वमेवान्तर्धानं प्राप्ताः ऋषिगणाः राजर्षिगणाः सिद्धाः देवजातिविशेषाः । परमर्षयः देवर्षयः । इद शाक्तिमता । वनवासे वनवासविषये न कार्यः ॥ २८ ॥२९॥ जानामीति । अत्रास्मिन भरते भरतविषये सर्व कल्याण भविष्यतीति शेषः ॥३०॥३१॥ विक्रीत मित्यादिना पौरजनमाश्चास्य पुनर्भरतं प्रत्याह-वृत इति । तद्वचनं तस्याः कैकेय्याः वचनं मया कृतं त्वमपि अनेन मद्वचनकरणेन पितरमनृतान्मोचयेति सम्बन्धः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायामकादशोत्तरशततमः सर्गः ॥ १११ ॥ तमिति । भ्रातृभ्यां सङ्गमं भ्रातृभ्यामन्योन्यमतिशयितसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिताः, अभवनितिशेषः ॥ १ ॥ अन्तर्दिताः पूर्वमेवान्तर्धानं
२२७॥
SS
For Private And Personal Use Only