________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
बुधोऽभिमुखो न स्यात् ॥३४॥ ऐहिकामुष्मिकफलसाधने धर्म शिष्टाचार प्रमाणयति-खत्त इत्यादिना । त्वत्तः पूर्वतरे पुरातनाश्च वराश्च ज्ञानतःश्रेष्ठाश्च लाटी. जनाः बहूनि शुभानि कर्माणि चक्रुः। ते इमं परं च लोकं जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं च ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात्। “सुकृतास. २००
त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहनि चक्रुः। जित्वा सदेमं च परञ्च लोकं तस्मादद्विजाः स्वस्ति हुतं कृतं च ॥३५॥ धर्मे रताः सत्पुरुषः समेतास्तेजस्विनो दानगुणप्रधानाः । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ ३६ ॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वचःसानुनयं च विप्रः॥ ३७॥ न नास्तिकानां वचनं ब्रवीम्यहं न चास्तिकोऽहं न च नास्ति किञ्चन । समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥ ३८॥ वा एतानि ज्योतिषि यन्नक्षत्राणि" इति श्रुतेः। तस्मात् कर्मानुष्ठानस्यैहिकामुष्मिकसकलफलसाधनत्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म हुतं यज्ञा पादिकृतं च सपोदानादिकं च कुर्वन्तीति शेपः। एवं प्रत्यक्षमेव न प्रमाणं तदतिरिक्तानां वेदानामपि प्रमाणत्वात् । तत्त्वं च तेषां महाजनपरिग्रहात् ।। स चापौरुषेयत्वेन तच्चाविच्छिन्नसम्प्रदायत्वे सति अस्मयमाणकर्तृकत्वात् । वैदिकानि च कर्माणि सफलानि अग्निरविसोमनक्षत्रेन्द्रादिफलभोगस्याबाधित प्रत्यक्षसिद्धत्रात् । अन्यकृतभोजनस्य पथिकाशनलाभावस्तु अदर्शनादविहितत्वाचेत्युक्तम् ॥३५॥३६॥इतीति । तथ्यं यथार्थम् । सत्यं सयो हितम् । M॥३७॥धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुपा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतोराज्यस्यानायकत्वरूपसङ्कटपरिहाराय त्वां निवर्तयितुं मया नास्तिकमतमुपन्यस्तम्, न वह वस्तुतो नास्तिक इत्याह-नेत्यादिना । किञ्चन परलोकादिकं नास्तीति न, अस्त्येव । समीक्ष्य कालं पुन विद्धि बुद्धतुल्यं विद्धि, तस्मात्प्रजानां यः शचतमः अवैदिकत्वेन परिहर्तव्यः । तेन नास्तिकेन बुधः अभिमुखो न स्यात् । शक्यतम इति पाठे बहिष्कर्तु च योग्य इत्यर्थः ॥ ३४॥ ऐहिकामुष्मिकफलसाधने धर्मे शिष्टाचारं प्रमाणयति-त्वत्त इति । स्वतः पूर्वतरे पुरातनाः बराच ज्ञानतः श्रेष्ठजनाः बहूनि कर्माणि शुभानि कर्माणि चक्रुः । ते इमं च परलोकं च जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात् कर्मानुष्ठानस्यैहिकामुष्मिकफलसाधन त्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म । हुतं यज्ञादिकम् कृतं तपो दानादिच कुर्वन्तीति शेषः ॥ ३५-३० ॥ धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुषा यत्किञ्चिन्मत
॥३२२॥
For Private And Personal Use Only