________________
Shri Maha
Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmande
चलस्वभावस्य । प्रतीच्छन्ति हव्यकव्यादिकमिति शेषः । नः अस्माभिः श्रुतम् ॥ १८ ॥ प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्म प्रत्यगात्म स्वयं पश्यामि आत्मानं प्रत्यविनाभूतत्वेन प्रवृत्तं पश्यामीत्यर्थः । सत्पुरुषाचीर्णः सत्पुरुषैराचरितः, सम्पादित इति यावत् । भारः जटावल्कलादि ।
प्रत्यगात्ममिमं धर्म सत्यं पश्याम्यहं स्वयम् । भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥१९॥ क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्म धर्मसंहितम् । क्षुदैर्नृशंसैलुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥ कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥२१॥ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानु पश्यन्ति सत्यमेव भजेत तत् ॥२२॥ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् । आह युक्तिकरैर्वाक्यरिदं भद्रं
कुरुष्व ह ॥ २३ ॥ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥२४॥ Mभारः । तदर्थं सत्यरूपधर्मार्थम् । अभिमन्यते अभिमतो भवति ॥ १९॥ पूर्वैराचरितं सत्यं परित्यज्य त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याहसाक्षात्रमित्यादिना । अधर्मम् अधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम्, अधर्मप्रचुरधर्मलेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥२०॥२१॥ भूमिरिति ।। कीर्तिः वितरणजनिता प्रथा । यशः पौरुषनिबन्धनम् । पुरुष करणत्रयेण सत्यनिष्णातम् अनुपश्यन्ति अनुसृत्य पश्यन्ति, अनुबधन्तीति यावत् ॥२२॥ श्रेष्ठमिति । श्रेष्ठमित्यवधायं निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैक्यिः यदाह तदनार्यमेव स्यात् ॥ २३॥ 'प्रत्यक्षं यत्तदातिष्ठ श्रुतम् ॥ १८ ॥ प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्मम् । प्रत्यगात्मम् आत्मनि प्रत्यक्षीकृतम् आत्मनि प्रतिमुखीकृतं स्वयं पश्यामि आत्मानं प्रत्य विनाभूतत्वेनावृतं पश्यामीत्यर्थः। सत्पुरुषाचीर्णः सत्पुरुपैराचरिता, सम्पादित इत्यर्थः । भारः जटावल्कलादिभारः, तदर्धसत्यरूपधर्मार्थमभिनन्द्यत इत्यर्थः । olu १९ । पूर्वराचरितं सत्यं परित्यय त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याह-क्षात्रमिति । अधर्ममधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम् अधर्मप्रचुरधर्म
लेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥ २०॥ २१ ॥ भूमिरिति । पुरुष प्रार्थयन्ति, सत्यभागिनमिति शेषः । कीर्तिः वितरणजनिता प्रथा ॥ २२ ॥ अवधार्य निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैर्वाक्यैर्मा यदाह तदकार्यमेव स्यात् ॥ २३ ॥ 'प्रत्यक्ष यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु' इत्येतस्य जाबालिवाक्यस्योत्तर MI स-प्रत्यगात्मम् अवन्ति गगठन्ति नानायोनिवित्यशः । ते च ते भामानः अगात्मानो जीवाः । अगात्मनः प्रति विद्यमान प्रत्यगात्मम् । वीप्सायामध्ययीभावः । "अनध" इति टन् । साप सायपरि Kापालनम् धुर्व मुख्य धर्म पश्यामि । भारः जहाभारः यतः धर्मार्थ स-पुरुषवीर्णः अतस्तदर्थम् अभिनन्द्यते आद्रियते ॥१९॥
For Private And Personal Use Only