SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir % % % % % एवमुक्त्वा विति । निरुत्तरमुक्तवन्तं रामं प्रति मुखान्तरेण उत्तरस्योच्यमानत्वाञ्चित्रमित्युक्तम् ॥१॥२॥ सम्मत इति । वृद्धानां विद्यवृद्धानाम् । सम्मतः सर्वज्ञत्वेन सम्मतः तथापि तान् संशयान पृच्छसीति सम्बन्धः ॥ ३ ॥ पितृवियोगादिजनितदुःखेन मया कथितमिति हि भवतोक्तम्, मम तादृशदुःख सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥३॥ यथा मृतस्तथा जीवन यथाऽसति तथा सति । यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः॥४॥ परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ ५॥ अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः। सर्वज्ञः सर्वदर्शी च बुद्धिमाश्चासि राघव ॥६॥ न त्वामेवगुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दुःखमासादयितुमर्हति ॥ ७ ॥ प्रसङ्ग एव नास्तीत्याह-यथा मृत इति । मृतः पुरुषो यथा द्वेषविषयो न भवति जीवनपि तथा। यथा असति तथा सति अविद्यमाने वस्तुनि यथा परागो नास्ति विद्यमाने वस्तुन्यपि तथा। इत्येष बुद्धिलाभो यस्य स केन हेतुना परितप्येत, न केनापीत्यर्थः । भवदुक्तप्रकारेण मम दुःखलेशोपि नास्तीति भावः ॥ ४ ॥ किमर्थं तर्हि शोकमूलवचनं त्वयोक्तमित्याशय भवब्यसनासहतयेत्याह-परावरज्ञ इति । यः परावरज्ञः त्रिकालज्ञः आत्मानात्मज्ञो वा परमात्मजीवात्मस्वरूपज्ञो वा । सः एवं व्यसनं प्राप्यापि व्यथितुं नाईति तथा त्वमपीति सम्बन्धः। अथापि तव राज्यभ्रंशवनवास रूपव्यसनं त्वद्विश्लेषं चाहं कथं सहेयेति भावः ॥५॥अमरेति । अपरोपमेति पृथक्पदम् । सत्त्वः सत्त्वगुणसम्पन्नः । अर्श आद्यच् । स्वाश्रितानां सत्त्वगुणकार्यतत्त्वज्ञानप्रवर्तकत्वाद्वा सत्त्व इत्युच्यते । “सत्त्वस्यैष प्रवर्तकः" इतिहि श्रुतिः । महात्मा महाधैर्यः अतएव सत्यसगरः सत्यप्रतिज्ञः। सर्वज्ञ इत्यादिभिस्त्रिभिर्भूतवर्तमानभावियावदस्तुज्ञानवत्त्वमुक्तम् ॥ ६॥ न वामिति । प्रभवाभवकोविदम् उत्पत्तिविनाशज्ञमित्यर्थः । भूताना सम्मत इति । सम्मतः सर्वज्ञत्वेन सम्मतः तथापि तान पृच्छसि ॥३॥ यथा मृतस्तथा जीवन यथा मृतः पुरुषो द्वेषविषयो न भवतीति शेषः । जीवन्नपि तथा| यथा असति अविद्यमाने वस्तुनि यथा रागो नास्ति, तथा सति विद्यमानेपि वस्तुनि तथा इत्येष बुद्धिलाभो यस्य पुरुषस्य स्यात् स हि केन हेतुना परितप्येत, न केनापीत्यर्थः॥४॥ परावरज्ञो यः स एवं व्यसनंप्राप्यापि विषीदितुं व्यथितुं नाहेति तथा त्वमपीति सम्बन्धः ॥५॥अमरेति । सत्त्वः सत्त्वगुणसम्पन्नः॥६॥ न त्वामिति । सा-व्यसनं व्यसनावस्थां प्राप्यापि विधीदितुं विषादं प्राप्तुं नाहति । तत्र दृष्टान्तः यथा त्वमिति । विषादितुमित्यत्र सौदादेश इडागमश्वार्षः ॥ ५॥ अमरोपमसत्त्वः देवसमचलः । बुद्धयारोहाथमेतत् । सर्वशः सामान्यज्ञानवान् । सर्वदर्शी सर्वसाक्षी । बुद्धिमान् सर्वविषयकविशेषज्ञानवान् । मतुपायम लभ्यते ॥१॥ % % % % % For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy