________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.रा.भू.लाविपरिणामेनान्वयः॥३९॥ मदिवासनं त्वयापि मान्यमित्याह-स स्वस्थ इत्यादिना । यात्वा गत्वा । तां पुरीम् । आवस अधितिष्ठ ॥१०॥ यत्रेति ।।
टी.अ.का. ॥३१३॥ लायत्र वनरूपे स्थाने ॥४१-४४॥ आत्मानमिति । स्वभावेनात्मानमनुतिष्ठ राजभावेन भवन्तं योजयेत्यर्थः । निझाम्य दृष्ट्वा, ज्ञात्वेति यावत् ॥ १५॥
स.१०६ स स्वस्थो भव माशोचीत्वा चावस तां पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना वदतां वर॥४०॥ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥४१॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्य सवै बन्धुः स नः पिता॥४२॥ तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः। कर्मणा पालयिष्यामि वनवासेन राघव ॥ ४३ ॥ धार्मिकेणानृशंसेन नरेण गुरुवर्तिना । भवितव्यं नरव्याघ्र पर लोकं जिगीषता ॥४४॥ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः॥४५॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ ४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५॥ एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको
धार्मिकं वचः ॥१॥ को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम। न त्वां प्रव्यथयेदुःखं प्रीतिर्वा न प्रहर्षयेत् ॥२॥ इतीति । यवीयसं यवीयांसम् ॥ ४६॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीता• अयोध्याकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥ १०५॥ अथ रामं प्रति भरतस्य श्लाघ्यतरोचितोत्तरं पदशततमे-एवमुक्त्वेत्यादि । अस्मिन् सर्गे श्लोकव्यत्यासःसर्गभेदश्च दृश्यते तच्छुद्धयेक्रमेण व्याक्रियते। स इति । यात्वा गत्वा। ता पुरीम् आवस अधितिष्ठेत्यर्थः ॥४०-४४॥ आत्मानमिति । स्वभावेनात्मानमनुतिष्ठस्त्र । स्वभावेन भवन्तं योजयेत्यर्थः। निशाम्य दृष्ट्वा ॥३१३॥ ज्ञात्वेत्यर्थः ॥ ४५ ॥ इत्येवमिति । यवीयसम् । नुमभाव आर्चः ॥४६॥ इति श्रीमहे श्रीरामायण अयोध्याकाण्डव्याख्यायो पक्षोत्तरशततमः सर्गः ॥ १०५ ॥१॥२
For Private And Personal Use Only