________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शेषः । यतः प्रजाः सुखभाजः धर्मसाध्यसुखासक्ताः स्मृता इति योज्यम् ॥ ३१ ॥ एवं लोकस्थितिः, अस्मत्पितरं प्रति तु न शोकगन्धोपि कार्य। इत्याशयेनाह-धर्मात्मेत्यादिना ॥ ३२ ॥ भृत्यानामिति । धर्मेण अर्थादानात् धर्मेण करादिग्रहणात् ॥ ३३॥ कर्मभिरिति । इष्टैः जनानां स्वस्य। धर्मात्मा स शुभैः कृत्स्नः क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गतः स्वर्ग पिता नः पृथिवीपतिः ॥ ३२॥ भृत्यानां भरणात् सम्यक प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः॥ ३३ ॥ कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः । स्वर्ग दशरथः प्राप्तः पिता नः पृथिवीपतिः॥ ३४ ॥ इवा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्क लान् । उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ ३५॥ आयुरुत्तममासाद्य भोगानपि च राघवः। सन शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ ३६ ॥ स जीर्ण मानुषं देहं परित्यज्य पिता हि नः । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ ३७॥ तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान बुद्धि
मत्तरः ॥ ३८ ॥ एते बहुविधाः शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ३९ ॥ IMचाभिमतैः शुभैः कर्मभिः महापथेषु तटाकनिर्माणादिभिः ॥ ३४ ॥ ३५॥ आयुरिति । उत्तमं तत्पूर्वराजायुरपेक्षया अधिकतमम् । आयुः भोगा
नपि चासाद्य स्वर्गतः सतां सस्कृतः स पिता म शोच्य इत्यन्वयः ॥३६॥ स जीर्णमिति । देवीमृद्धिं देवसम्बन्धिसम्पदं दिव्यदेहादिलाभरूपा मित्यर्थः ॥३७॥ तं त्विति । एवंविधः प्राज्ञ इति भरतगुणं प्रत्यक्षेण निर्दिशति-वविध इत्युक्तमुहाटयति तद्विध इति । श्रुतवान् बुद्धिमत्तरश्च यति। धोरि तद्विध इत्यर्थः ॥ ३८ ॥ एत इति । बहुविधाः दशरथमरणमद्विवासनादिभेदेन बहुप्रकाराः । विलापरुदिते प्रलापाश्रुमोचने च वर्जनीये इति| कतः सुखभाजः प्रजाः स्मृताः धर्मसाध्ये सुखे सक्ताः खलु जना इत्यर्थः ॥ २१-३४ ॥ इष्ट्वेति । उत्तम पापप्रसङ्गरहितम् ॥ ३५ ॥ ३६ ॥ देवीमृद्धिं देवसम्बन्धि सम्पदम् ॥ २७ ॥ एवं मिथः कश्चित् प्राज्ञः तं दशरथं शोचितुं नार्हति । एवंविधा को वेत्याकालायामाह तद्विध इति । श्रुतवान बुद्धिमत्तरश्च यद्विधोसि, तद्विध इति योजना ॥ ३८ ॥ एत इति । बहुविधाः दशरथमरणमद्विवासनादिविषयभेदेन बहुप्रकाराः। तथा विलापरुदिते प्रलापाश्रुविमोचने च वर्जनीये ॥ ३९ ॥M
For Private And Personal Use Only