________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वा.रा.भ. २४ नात्रेति । अस्मिल्लोके कश्चिदपि प्राणी यथाभावं न समभिवर्त्तते यथाभिलाषं बन्धुभिः सह न वर्त्तते तेन कारणेन प्रेतस्य मृतस्य हेतोः अनुशो ॥३१२॥ चतः पुरुषस्य तस्मिन् मरणनिवारणे सामर्थ्यं नास्ति । (अस्मिन लोके कश्चिदपि ब्रह्मादिस्तम्बपर्यन्तेषु कोऽपि जन्तुः यथाभावं यथाभिलाषम् अप्रतिहतसङ्कल्पतयेत्यर्थः । न समभिवर्तते कश्विदित्यनेन मानुषाद्यपेक्षया चिरकालवर्तिनां शक्त्यतिशयभाजामपि ब्रह्मादीनामधिकारावसाने मरणं
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २८ ॥ यथा हि सा गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २९ ॥ एवं पूर्वेर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ ३० ॥ वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दुर्निवारमेवेत्याशयः । तेन एवम प्रतिहतसङ्कल्पत्वाभावेन प्रेतस्य मृतस्य हेतोः अनुशोचतः पुरुषस्य तस्मिन्मरणनिवारणे सामर्थ्य नास्ति, अतः ब्रह्मादीनामप्यपरिहार्ये शोकं विहाय सर्वानर्थनिवृत्तये प्रयतेतेति भावः) ॥ २८ ॥ यथेत्यादिश्लोकद्वयम् । गच्छन्तं सार्थे पथिकसमूहं पथि स्थितः पुरुषो यथा अहमप्यागमिष्यामीति ब्रूयादनुगच्छति च एवं पूर्वैर्वश्यैः गतः प्राप्तो मार्गः पितृपैतामहः पितृपितामहसम्बन्धी तैरपि प्राप्त इति यावत् ध्रुवः पुत्रादिभिरपि तव्यत्वेन निश्चितः ॥ २९ ॥ ३० ॥ उक्तमर्थमुपसंहरति-वयस इत्यादिना । " यस्य च भावेन भावलक्षणम् " इति सप्तम्यर्थे षष्ठी ।। वाशब्द इवार्थः । अनिवर्तिनि स्रोतसीव वयसि पतमाने अनिवर्तितया गच्छति सति आत्मा सुखे सुखहेतो धर्मे नियोक्तव्यः । परलोकहितचिन्तयेति
अत्र अस्मिलोके करि पि प्राणी यथाभावं न समभिवर्तते यथाभिलाषं बन्धुभिस्सद् न वर्तते अपि तु विप्रयुज्यत एव। तेन कारणेन प्रेतस्य मृतस्य हेतोरनुशोचत: पुरुषस्य तस्मिन् विप्रयोगे मरणनिवारणे वा सामर्थ्य परिहारशक्तिर्नास्तीति सम्बन्धः ॥ २८ ॥ यथा हीत्यादिश्लोकद्वयमेकं वाक्यम् । गच्छन्तं सार्थं पथिकस पथि स्थितः पुरुषो यथा ब्रूयादनुसृत्य गच्छति च एवं पूर्वैराद्यैरन्यैर्गतः प्राप्तः मार्गः मृतिरूपः पितृपैतामहः पितृपितामहसम्बन्धी ध्रुवः पुत्रादिभिरप्युपगन्तव्य त्वेन निश्चितः ॥ २९ ॥ ३० ॥ स इति सप्तम्यर्थे षष्ठी । वाशब्द इवार्थे । अनिवर्तिनि स्रोतसीव वयसि आयुषि पतमानें गच्छति सति आत्मा सुखे धर्मे योक्तव्यः ।
For Private And Personal Use Only
टी.अ
स० [१०५
॥३१२७