________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रथमाबहुवचनमहोरात्रविशेषणम् । अंशवः सूर्यस्येति शेषः॥२०॥ शोकविषयं निारयति-आत्मानमिति । आयुस्ते यतो हीयते अतः परलोक चिन्तामेव कुर्वित्यर्थः॥२१॥ मृत्युः सर्वथा दुष्परिहर इत्याह-सहैवेति ॥ २२ ॥ कालान्तरे तथैव कारिष्यामीत्यत्राह-गात्रेष्वित्यादिना । तस्मात् वाल्य एव आत्मज्ञानाय यतेतेत्युक्तं भवति । किं हि कृत्वा पूर्वोक्तोपद्रवपरिहारत्वेन कमुपायं कृत्वा आत्मानं प्रभुं कुर्यादित्यर्थः ॥२३॥ बाल्येपिM
आत्मानमनुशोच त्वं किमन्यमनुशोचसि। आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥२१॥ सहैव मृत्युर्वजति सह मृत्युनिषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥२२॥ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः। जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २३ ॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते खौ। आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २४ ॥ हृष्यन्त्य॒तुमुखं दृष्ट्वा नवनवमिहागतम् । ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ।। २५॥ यथा काष्टं च काष्टं च समेयातां महाणवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन
॥ २६ ॥ एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥२७॥ पुरुषाणां विवेको दुर्लभ इत्याह-नन्दन्तीत्यादिना। आदित्ये उदिते नन्दन्ति, अर्थार्जनकालोऽयमागत इति । खो अस्तमितेपि नन्दन्ति, कामोपभोग कालोऽयमागत इति । आत्मनो जीवितक्षयं नावबुध्यन्ते सच्छिद्रघटे गृहीतं जलमिव प्रतिक्षणमायुःक्षीयत इति न जानन्ति । जीवितकाल एव परलोक हितं कर्तुं नेच्छन्तीत्यर्थः ॥२४॥ हृष्यन्तीति । तत्तदृत्वागमं दृष्ट्वा नानाभोगहेतुरिति दृष्यन्ति, प्रत्युत ऋत्वागमोऽनर्थहेतुरित्याह-ऋतूनां परिवत्तें पानति ॥ २५॥ श्लिष्टानां विश्वेपस्यावश्यम्भावित्वात्तदपि न शोचनीयमित्यभिप्रायेणाह-यथा काष्ठमितिश्लोकदयेन । विनाभवः वियोगः ॥२६॥२७॥
आत्मानमनुशोच नश्वरफलसाधनेषु व्यापूतं त्वामेवानुशोचेत्यर्थः ॥ २१॥ सहेवेति । सहेव मृत्युव्रजति ईश्वरलिखितललाटरेखाया एव मृत्युरूपत्वादिति भावः ॥२२॥ किंवा कृत्वा प्रभावयेत् एतत्सर्वपरिहारत्वेन कमुशायं कृत्वा पुरुषस्समयों भवेत् ॥ २३॥ आयु-क्षयकरादित्योदयाद्यनिष्टसाधने इष्टसाधनत्वबुद्धिं कुर्वन्तः स्वहितं न जानन्तीत्याह-नन्दन्तीत्यादिना ॥ २४ ॥ हृष्यन्तीति । येषां ऋतूनां परिवर्तनेन प्राणिनां प्राणक्षयो भवति तादृशम् ऋतुमुखं दृष्ट्वा हृष्यन्तीति यत्तच्छब्दाध्याहारेण सम्बन्धः ॥ २५॥ संश्लिष्टानां विशेषस्यावश्यम्भावित्वाननिमित्तमनश्शोको न कार्य इत्यभिप्रायेणाह-यथाकाष्ठमित्यादि । विनाभवः विनाभावः, वियोग इत्यर्थः । एषां वियोगो ध्रुव इत्यर्थः ॥ २६ ॥२७॥
For Private And Personal Use Only