________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
१०५
धा.रा.भ.वासा
देशान्तरम् । इतरतः अन्यद्देशाच्च एनं देशं कृतान्तः स्वतन्त्रदेवमेव परिकर्षति आकर्षति। "देवे कृतान्तः सिद्धान्ते यमाकुशलकर्मणोः” इति । शिवजयन्ती। यथोक्तं भगवता गीताचार्येण-"ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥” इति ॥ १५॥ अपरिहरणीयवस्तुस्वभावपालोचनायां पितृमरणेनापि शोकस्यावकाशो नास्तीत्यमुमर्थमाह-सर्व इति । निचयाः धनसञ्चयाः । सर्वे बहुशः
सर्व क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ १६॥ यथा फलानां पक्कानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ १७॥ यथागारं दृढस्थूणं जीर्ण भूत्वाऽवसीदति । तथैव सीदन्ति नरा जरामृत्युवराङ्गताः ॥ १८॥ अत्येति रजनी या तु सा न प्रति निवर्त्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ १९॥ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥२०॥ सम्पादिता अपि क्षयान्ताःक्षयपर्यवसायिनः, चोरेग कामेन राज्ञा वा नश्यन्तीत्यर्थः । समुच्छ्रयाः अत्यन्तसमुन्नता अपि पतनान्ताः अत्युन्नतपद Kalस्थिताः ब्रह्मेन्द्रादयोपि स्वस्वाधिकारसमाप्तिदशायां तत्पदभ्रंशपर्यवसायिन इति यावत् । संयोगाः पुत्रमित्रकलबादिसम्बन्धा अपि विप्रयोगान्ताः
विरहपर्य्यवसायिनः । जीवितं च उत्कृष्टजीवनमपि मरणान्तम् अपरिहार्यमरणाधीनभङ्गशालीत्यर्थः । पितृमरणशोकेनैवमुच्यते भरतेनेत्यारोप्य तदपनोदनं कृतमस्मिन् श्लोके पादत्रयोक्तार्थत्रयं दृष्टान्तार्थम् । तुरीयपादश्च दार्शन्तिकं दशरथमरणमभिप्रेति । अतः अपरिहार्यकालकृतत्वात पितृमरणमपि न शोचनीयमिति भावः॥ १६॥ प्रथमश्लोके वनगमनं न मया स्वतन्त्रेण कृतम् अपित्वीश्वरकृतमित्युक्तम्, द्वितीयश्लोके दशरथमरणंच कालकृतमतस्तत्रापि न शोचनीयमित्युक्तम् । अथ द्वितीयश्लोकोक्तं सदृष्टान्तं प्रपञ्चयति-यथेत्यादिना ॥ १७॥ १८॥ अत्यतीति । समुद्रस्योदका कुलत्वविशेषणम् । यमुनायाः सर्वथा अनिवयत्वाय॥ १९॥ रामानु०-अत्येतीति । समुदं लवणार्णवमिति पाठः सम्यक ॥ १९ ॥ अहोरात्राणीति । गच्छन्तीति कारणमित्यन्यापदेशमुखेन भरतदुःख निवर्तयितुमुपक्रमते-नात्मम इत्यादि । आत्मनः पुरुषस्य । कामकारः ऐच्छिकव्यापारः । अनीश्वरः अस्वतन्त्रः । कृताम्तः पा देवर ॥ १५ ॥ अपरिहरणीयवस्तुस्वभावपर्यालोचनया शोकस्यावकाशो नास्तीत्याह-सर्व इति । निचयाः वस्तुसमूहाः ॥ १६-१८॥ अत्येतीति । उदकार्णवम् उदकाधारम् ॥ १९॥ (समुद्रमुदकार्णवमितिपाठः) गच्छन्तीति शत्रन्सम् । आयूंषि क्षपयन्ति । अंशवः सूर्यकिरणाः ॥ २०॥
For Private And Personal Use Only