________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
समाचरामि, कथं समाचराणीत्यर्थः ॥ २२-२४ ॥ सचेति । पित्रा दत्तं भागं यथा यथावत् उपभोक्तुमित्यन्वयः ॥२५॥२६॥ यदिति परमात्मनो हितम् आत्मनः परं हितम् ॥ २७॥ इति श्रीगोवि० श्रीरामायणभूषणे पीता० अयोध्याकाण्डव्याख्नाने चतुरुचरशततमस्सर्गः॥१०॥
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥२५॥ चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः। उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥२६॥ यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततमः सर्गः ॥ १०४ ॥
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः । शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥१॥ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वताः। मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥२॥
तूष्णीं ते समुपासीना न कश्चित्किश्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥३॥ अथ पुनर्भरतस्य कैकेयीनिर्बन्धकृतपितृनियोगपरिहारोचितवचनपूर्वकं प्रार्थनम्, रामस्य च तत्समाश्वासनं तत्त्वोपदेशेनेत्येतत्पश्चोत्तरशततमेततः पुरुषसिंहानामित्यादि ॥१॥ रजन्यामिति । हुतं होमम् ॥२॥३॥ यदिति । सर्बलोकेश्वरभावं सर्वलोकेश्वरत्वम् । ननु “आर्य तातः परित्यज्य, इमाः प्रकृतयः, त्वत्सकाशमनुप्राप्ताः" इति भरतेनोक्ते रामस्तदानीमशोचन तदुल्लचाभिषेकप्रत्याख्यानमेव किमिति कृतवान ! नेष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गिकत्वेनोक्तम्, प्राधान्येन राज्यस्वीकरणमेवोच्यते, अतो रामस्तदेवं मन्यते पिता पुत्रशोकेन मृतकल्पो न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेकवचनमेव प्राधान्येनोच्यत इत्यशोचन अभिषकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थ इति परिहारः ॥ २७॥ इति श्रीमहेश्वरतीर्थविरचितायो
श्रीरामायणतत्वदीपिकीख्यायाम् अयोध्याकाण्डव्याख्यायां चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ १॥ रजन्यामिति । हुतं होमम् ॥२॥३॥ a तिलक-मनु पितृमरणश्रवणोत्तरं शोकमुलाय अभिषेकप्रत्याख्यानमेव कृतमिति चेच्छृणु-भरतस्य रामो राज्यं स्वीकारण्यतीति प्रत्याशावारणाय कैकेय्या लोकानां च अन्यथासम्भावनावारणाय शोक Vाकालेपि धर्यमवलम्ब्य वर्तनं शोककालेप्येव धैर्य कर्तव्यमिति लोकोपदेशाष वेति मम प्रतिभाति । करा- राक्षेपेणावादानुक्याने विस्तरेण पदतीति प्रायः कवेः स्वभावोऽयमिति ॥ २७॥
For Private And Personal Use Only