________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी.अ.का.
म.
कुलीन इति । कुलीनः महाकुलप्रमूतः। सत्त्वसम्पन्नः सत्त्वगुणसम्पन्नः। पापं ज्येष्ठविषयप्रातिकूल्यरूपम् ॥ १६॥ नेति । बाल्यात् अज्ञानादित्यर्थः ॥ १७॥ कामेति । कामकारः स्वच्छन्दकरणम् । उपपन्नेषु शिष्यदासादिषु ॥१८॥ वयमिति । लोके भार्यादयः साधुभिर्यथा सङ्ख्याताः कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितवतः । राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ १६ ॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगल्तुिमर्हसि ॥१७॥ कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते॥१८॥ वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः। भार्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ १९ ॥ वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥२०॥ यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २१ ॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छति राघव । मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥ २२ ॥ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥२३॥ एवं कृत्वा
महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गतः ॥२४॥ नियाम्यत्वेन परिगणिताः, वयमपि तथा दशरथस्यति त्वं ज्ञातुमर्हसि । अनुनिरर्थकः ॥ १९॥ वन इति । चीरं दुमवल्कलं वसनमुत्तरीयं यस्य तम् । कृष्णाजिनम् अम्बरम् अपराम्बरं यस्य तम् । ईश्वरः नियन्ता ॥ २० ॥ यावदिति । पितरि यावत् यत्परिमाणकं गौरवं जनन्यामपि तावत् तत्परिमाणकं गौरवम्, कर्तव्यमिति शेषः । यत्तच्छब्दाभ्यां " यत्तदेतेभ्यः परिमाणे वतुप्" इति वतु॥२३॥ फलितमाह-एताभ्यामिति । समाचरे राज्यहेतोः राज्यार्थम् । पापं ज्येष्ठाविषयप्रातिकूल्यरूपम् ॥ १६ ॥ १७ ॥ कामकारः स्वच्छन्दकरणं गुरूणां महताम् । उपपन्नेषु युक्तेषु सम्मतेचित्यर्थः । दारादिषु विधीयत इति सम्बन्धः । महान्तोपि अभिमतदारादिषु स्नेहं कुर्वन्तीति भावः ॥ १८ ॥ वयमिति । लोके भार्यादयः साधुभिर्यथा सङ्ख्याताः नियाम्यत्वेन परिगणिताः । वयमप्यस्य दशरथस्य तथा नियाम्या इति त्वं ज्ञातुमर्हसीति सम्बन्धः ॥ १९-२१ ॥ मातापितृभ्यां कैकेयीदशरथाभ्याम् ॥ २२-२६ ॥
॥३०९॥
For Private And Personal Use Only