________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
तामित्यादि । करुणां शोकावद्दाम् । यद्वा अकरुणां करुणारहिताम्, क्रूरामिति यावत् ॥ १॥ तं त्वित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । बाहू प्रगृह्य पाणिना पाणि निष्पीड्य उद्धृत्य वा । वाग्वज्रमित्यस्य पूर्वश्लोकादनुपक्तेन श्रुत्वेत्यनेनान्वयः ॥ २ ॥ ३ ॥ तथेत्यादिश्लोकद्वयम् । कूल घातेन मदेन दन्तकण्डा च कृतेन कूलप्रहारेण परिश्रान्तम् अतएव प्रसुप्तं कुञ्जरमिव स्थितम्, मूर्च्छितमित्यर्थः । सलिलेन सर्वतः सिषिचुः सर्व
श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतनः ॥ १ ॥ तं तु वज्रमिवोत्सृष्ट माहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥ २ ॥ प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः । वने परशुना कृत्तस्तथा भुवि पपात ह ॥ ३ ॥ तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्त मिव कुञ्जरम् ॥ ४ ॥ भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् । रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ ५ ॥ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामात्रमुत्सृजन् । उपाक्रामत काकुत्स्थः कृपणं बहु भाषितम् ॥ ६ ॥ स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ ७ ॥ किं करिष्याम्ययोध्यायां तादिष्टां गतिं गते । कस्तां राजवरादीनामयोध्यां पालयिष्यति ॥ ८ ॥ किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः । यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ ९ ॥
गात्राणि मोहशान्तये सिक्तवन्तः । यतः "अमृतं वा आपस्तस्मादद्भिवतांतमभिषिञ्चन्ति " इति श्रुतिरपि हि वदति ॥ ४ ॥ ५ ॥ स त्विति । उपा कामत उपाक्रमत। दीर्घ आर्पः ॥ ६ ॥ ७ ॥ किमिति । दिष्टां कालकल्पिताम् । " कालो दिष्टोप्यनेहापि " इत्यमरः । यद्वा दिष्टां दैवकल्पिताम् । "देवं दिष्टं भागधेयम्" इत्यमरः । राजवरात्। तृतीयार्थे पञ्चमी । (पाठान्तरं । किं करिष्यामीत्यस्य भावमुद्घाटयति राजवरेति । राजवराधीनां तद्रक्षणा धीनामित्यर्थः ) ॥ ८ ॥ पितृमरणहेतुभूतत्वात्तत्संस्कारानुपयोगाच्चात्मानं विगर्हते किं नु तस्येति ॥ ९॥
तामिति । अकरुणां क्रूराम् ॥ १ ॥ तमित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । वाग्वज्रं श्रुत्वेत्यनुषज्यते । बाहू प्रगृह्य पाणिना पाणि निष्पीडय, बाहू उद्धृत्य या ॥ ३० ॥ दिष्टां गतिं कालकल्पितां गतिम् मरणमित्यर्थः । राजवरात् । तृतीयार्थे पञ्चमी ॥ ८-१० ॥
For Private And Personal Use Only